SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ (३०) पर्याप्तस्यावधिज्ञानं मिथ्यात्वविषदूषितम् । विभंगं भण्यते सद्भिः क्षयोपशमसंभवम् ॥ २३२ ॥ उदये यद्विपर्यस्तं ज्ञानावरणकर्मणः । तदस्थास्नुतया नोक्तं मिथ्याज्ञानं सुदृष्टिषु ॥ २३३ ॥ कषायाः षोडश प्रोक्ता नोकषाया यतो नव । ईषद्भेदो न भेदोऽतः कषायाः पंचविशतिः ॥ २३४ ॥ शामिकं शमतस्तेषां क्षायिकं क्षयतो मतम् । क्षयोपशमतो वृत्तं क्षायोपशमिकं पुनः || २३५ ।। द्वादशाद्य कषायाणामुदयस्य क्षये सति । यत्सच्चोपशमे तेषां चारित्रोदयघातिनाम् ॥ २३६ ॥ त्रयोदशकषायाणां परेषामुदये सति । चारित्रं जायते तत्स्यात् क्षायोपशमिकं यतेः ॥ २३७ ॥ युग्मम् ॥ व्रतदण्डकषायाक्षसमितीनां यथाक्रमम् । संयमो धारणं त्यागो निग्रहो विजयोऽवनम् ॥ २३८ ॥ क्रियते यदभेदेन व्रतानामधिरोपणम् । कषाय स्थूलतालीढः स सामायिकसंयमः ।। २३९ ॥ व्रतानां भेदनं कृत्वा यदात्मन्यधिरोपणम् । शोधनं वा विलोपेनच्छेदोपस्थापनं मतं ॥ २४० ॥ सावद्यपरिहारेण प्राप्यते यः समाहितैः । व्रतगुप्तिसमित्याढ्यैः सः परीहारसंयमः ।। २४१ ॥ वर्तते सूक्ष्मलोभे यः शमके क्षपके गुणे । स सूक्ष्म सांपरायाख्यः संयमः सूक्ष्मलोभतः ।। २४२ ।। १ रक्षणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy