________________
( २९)
क्षयोपशमजः पोढा शेषाणां जन्मभागिनाम् । अधोगतबहुद्रव्यबोधनादवधिर्मतः ॥ २२१ ॥ अनुगोऽननुगः शस्त्रदवस्थोऽनवस्थितः । मुनिभिर्वर्द्धमानोऽसौ हीयमानश्वकथ्यते ॥ २२२ ॥ सर्वाडोत्थोऽवधिस्तीर्थकर्तृनारकनाकिनाम् । परेषां शंखराजीवस्वस्तिकाद्यङ्गचिन्हजः ॥ २२३ ॥ नन्द्यावतॊ ध्वजः पद्मः श्रीवत्सः कलशो हलम् । पावनं नरतिर्यक्षु नाभेरुपरि लक्षणं ॥ २२४ ॥ सरटो मर्कटो गोधा कंकः काको वकः खरः । अधस्ताल्लक्षणं नाभेर्विभंगस्य तु निन्दितम् ॥ २२५ ॥ क्षयोपशमयोगस्य तारतम्यव्यवस्थितेः । उत्पत्तिक्षेत्रमासाद्य जायते तारतम्यता ॥ २२६ ॥ योऽन्यदीयमनोजोतरूपिद्रव्यावबोधकः । स मनःपर्ययो द्वेधा विपुलर्जुमती मतः ॥ २२७ ॥ लब्ध्वान्यतमलब्धीनां संयतानां प्रजायते । मर्त्य क्षेत्रस्थितद्रव्यप्रकाशी स प्रकर्षतः ॥ २२८ ॥ साक्षात्कृताखिलद्रव्यपर्यायमविपर्ययम् । अनन्तं केवलज्ञानं कल्मषक्षयसंभवम् ।। २२९ ॥ मतिश्रुतावधिज्ञानं मिथ्यात्वसमवायतः । 'विपरीतं त्रिधाज्ञेयं विपरीतार्थदर्शकम् ॥ २३० ॥ रूपादौ यद्विपर्यस्तं मत्यज्ञानं तदक्षजम् । धर्मरिक्तं श्रुताज्ञानं विज्ञेयं शब्दकारणम् ॥ २३१॥ १ ख पुस्तके "नानुगः” इति पाठः । २ क पुस्तके मनोयात इति पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org