________________
. (२८)
२४-२८-३२ । त्रयोऽपि राशयस्तावद्बह्वादिभिरसेतरैः। तैः सेतरैः पुनस्ताड्या मतिभेदावबुद्धये ॥ २१६ ॥ १४४।१६८।१९२॥
ते त्रयो राशयः सेतरैह्वादिभिादशभिर्गुणिताः-- २८८।३३६-३८४ ।। मतिपूर्व श्रुतं प्रोक्तं यनेकद्वादशात्मकम् । शब्दाद् घटादि विज्ञानं वह्निज्ञानं च धृमतः ॥ २१७ ॥ मतिपूर्व श्रुतं दक्षरुपचारान्मतिर्मता । मतिपूर्व ततः सर्व श्रुतं ज्ञेयं विचक्षणः ॥ २१८ ।। ___ घट इत्युक्ते घकाराकारटकाराकारविसर्जनीयविषयं मतिज्ञानं ततः पृथुबुनोदराद्याकारविषयं श्रुतज्ञानं ततो जलधारणादिविषयं श्रुतज्ञानम् । तथा धूमदर्शनं मतिज्ञानं ततोऽग्निविषयं विज्ञानं श्रुतज्ञानं ततोऽपि दाहपाकादिविषयं विज्ञानं श्रुतज्ञानमिति श्रुतात् श्रुतोत्पत्तेतिपूर्व श्रुतमेतल्लक्षणमव्यापीति चेत्, नैप दोषो मतेर्यच्छ्रतज्ञानं तदपि मतिज्ञानमेव कार्येकारणोपचारात् अन्नं वै प्राणाः, आयुर्वैघृतमित्यादिवत् । ततो व्याप्येव लक्षणं । अवाच्यानामनन्तांशो वाच्या भावा मता जिनः । तद्वत्तेषामनन्तांशो वाच्यानामागमे पुनः ॥ २१९ ॥ मूर्त्ताशेषपदार्थानां वेदको गद्यतेऽवधिः । स भवप्रत्ययः प्रोक्तो नारकेष्वमरेषु च ॥ २२० ॥ १ च शब्दात्तीर्थकराणाञ्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org