SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ (२७) सन्त्यनन्तानुबन्ध्याख्याः अप्रत्याख्याननामकाः । ते प्रत्याख्यानसंज्ञाकाः क्रमात्संज्वलनाभिधाः ॥ २०४ ॥ तैराद्यैर्दृष्टिचारित्रे द्वितीयैर्देशसंयमः । तृतीयैः संयमस्तुयैर्यथाख्यातञ्च हन्यते ॥ २०५ ॥ कोपतः समतो ग्रावाभूरेणूदकराजिभिः । गतिं चतुर्विधां यान्ति श्वभ्रतिर्यग्नुनाकिनाम् ॥ २०६ ॥ अश्मस्तं भास्थिदार्वार्द्रवल्लरीसमतो गतिं । मानतो गच्छति श्वभ्रतिर्यङ्मर्त्यदिवौकसाम् ॥ २०७ ॥ तुल्यया वंशमूलाविशृङ्गोमूत्रचामरैः । मायया नारकस्तिर्यङ जायते मानवोऽमरः ॥ २०८ ॥ कृमिनीलीहरिद्राङ्ग मलरागसमानतः । लोभतो जायते श्वभ्रस्तैरवो मानुषः सुरः ॥ २०९ ॥ क्रुद्धः श्वश्रेषु तिर्यक्षु मायायाः प्रथमोदयः । जातस्य नृषु मानस्य लोभस्य स्वर्गवासिषु ।। २१० ।। आचार्या निगदन्त्यन्ये कोपादिप्रथमोदये | भ्रमतां भवकान्तारे नियमो नास्ति जन्मिनाम् ॥ २११ ॥ स्वान्यपीडाकरा निन्द्या बन्धासंयमहेतवः । कषायाः सन्ति नो येषां तेऽकषाया जिनोत्तमाः ।। २१२ ॥ गुणपर्ययवद्द्द्रव्यं धौव्योत्पादव्ययात्मकं । तत्वतो ज्ञायते येन तज्ज्ञानं कथ्यते जिनैः ।। २१३ ॥ इन्द्रियानिन्द्रियैरर्थग्रहणं मननं मतिः । विकल्पा विविधास्तस्याः क्षयोपशमसंभवाः ।। २१४ ॥ क्षिपेद्धत्वेन्द्रियैः षड्रभिश्चतुरोऽवग्रहादिकान् | व्यञ्जनावग्रहं तत्र मूलभंगं चतुर्विधं ॥ २९५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy