________________
(२६)
या स्त्री द्रव्येण, भावेन साऽस्ति स्त्री ना नपुंसकः । पुमान् द्रव्येण, भावेन पुमानारी नपुंसकः ॥ १९३ ॥ संढो द्रव्येण, भावेन संढो नारी नरो मतः । इत्येवं नवधा वेदो द्रव्यभावविभेदतः ॥ १९४ ।। स्तनयोनिमती नारी पुमान् सश्मश्रुमेहनः । न स्त्री न पुरुषः पापो द्वयरूपो नपुंसकः ॥ १९५ ।। श्रोणिमार्दवस्रस्तत्वं मुग्धत्वक्लीबतास्तनाः । पुंस्कामेन समं सप्त लिंगानि स्त्रैणसूचने ॥ १९६ ॥ खरत्वमेहनस्ताब्ध्य सौंडीर्यस्मश्रुधृष्टताः। स्त्रीकामेन समं सप्त लिंगानि पौनवेदने ।। १९७ ॥ यानि स्त्रीपुंसलिंगानि पूर्वाणीति चतुर्दश । शक्तानि तानि मिश्राणि षंढभावनिवेदने ॥ १९८ ॥ गर्भः स्त्यायति यस्यां या दोषैश्छादयति स्वयं । नराभिलाषिणी नित्यं या सेह स्त्री निरुच्यते ॥ १९९ ।। कुरुते पुरुकर्माणि गर्भ रोपयते स्त्रियां। यतो भजति रामस्यं ज्ञेयः सद्भिस्ततः पुमान् ॥ २०० ॥ सुष्टु क्लिष्टमनोवृत्तिद्वयाकांक्षी नपुंसकः । नरप्रजावतीरूपो दुःसहाधिकवेदनः ॥ २०१॥ करीषजेन ताणेन पावकेनेष्टकेन च । समतो वेदतोऽपेताः सन्त्यवेदा गतव्यथाः ॥ २०२ ।। ये चारित्रपरीणामं कषन्ति शिवकारणं । क्रुन्मानवंचनालोभास्ते कषायाश्चतुर्विधाः ॥ २०३ ।। १ क पुस्तकेनास्त्यम् श्लोकः। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org .