________________
(२५) औदारिकेन तिर्यक्षु नृणामाहारकेनं च । सहाहारकयोगेन जातु वैक्रियिकोऽस्ति नो ॥ १८३ ॥ वक्रतौं सकला हाङ्गा देवश्वाभ्रास्त्रिविग्रंहाः। त्रिकाया मर्त्यतिर्यचश्चतुःकाया च केचन ॥ १८४ ॥ द्वयोस्त्रयोदशैकत्र दशान्यत्र त्रयोदश । नवैकादश ते पटसु नवातः सप्त योगिनि ॥ १८५ ॥
१३।१३।१०।१३।९।११।९।९।९।९।९।९।७।। नोकपायविशेषाणामुदये त्रिविधोऽङ्गिनाम् । स्त्रीपुंनपुंसकाभिख्यो वेदो मूढत्वकारकः ॥ १८६ ॥ वेदोदीरणया जीवः सुषुप्तमनुजोपमः। कृत्याकृत्यविचाराणां जायते करणाक्षमः ॥ १८७ ॥ वेदकर्मोदयोत्पन्नो भाववेदस्त्रिधास्मृतः । नामकर्मोदयोत्पन्नो द्रव्यवेदोऽपि च त्रिधा ॥ १८८ ॥ जीवस्वभावसंमोहो भाववेदोऽभिधीयते । योनिलिंगादिको दक्षद्रव्यवेदः शरीरिणाम् ।। १८९ ॥ योऽभिलाषः स्त्रियाः पुंसि पुरुषस्य च यः स्त्रियाम् । स्त्रीपुंसयोश्च संढस्य भाववेदोऽस्ति स त्रिधा ॥ १९ ॥ नान्तर्मोहूर्तिका वेदास्ततः सन्ति कषायवत् । आजन्ममृत्युतस्तेषामुदयो दृश्यते यतः ॥ १९१ ॥ स्त्रीपुंनपुंसका जीवाः सदृशा द्रव्यभावतः । जायन्ते विसदृक्षाश्च कर्मपाकनियन्त्रिताः ॥ १९२ ।।
१-२ युक्तो इमो तैजसकार्मणौ स्त इति सम्बन्धः । ३ विग्रहगतौ । ४ विग्रहगतौ सर्वेजीवास्तैजसकार्मणकायाः । ५ त्रिशरीराः। ६ मनुष्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org