________________
( २४) उदरे यो भवः स्थूले यस्योदारं प्रयोजनं ।
औदारिकोऽस्त्यसौ कायो मिश्रोऽपर्याप्त इष्यते ॥ १७२ ॥ विक्रियायां भवः कायो विक्रिया वा प्रयोजनं । यस्य वैक्रियिको ज्ञेयो मिश्रोऽपूर्णः स कथ्यते ॥ १७३ ।। एकानेकलघुस्थूलशरीरविविधक्रिया । विक्रिया कथिता प्राज्ञैः सुरश्वाभ्रादिगोचरा ॥ १७४ ।। अर्थानाहरते सूक्ष्मान् गत्वा केवलिनोन्तिकम् । संशये सति लब्धर्द्धरसंयमजिहासया ॥ १७५ ॥ यः प्रमत्तस्य मूर्धोत्थो धवलो धातुवर्जितः । अन्तर्मुहूर्तस्थितिकः सर्वव्याघातविच्युतः ॥ १७६ ॥ पवित्रोत्तमसंस्थानो हस्तमात्रोऽनघद्युतिः।। आहारकः स बोद्धव्यो मिश्रोऽपर्याप्त उच्यते ॥ १७७ ।। कर्मैव कार्मणः कायः कर्मणां वा कदम्बकं । एकद्वित्रिक्षणानेष विग्रहतौ प्रवर्तते ॥ १७८ ॥ तैजसेन शरीरेण वध्यते न न जीर्यते । न चोपभुज्यते किंचिद्यतो योगोऽस्य नास्त्यतः ।। १७९ ॥ अकायाः सन्ति निर्मुक्ताः शुभाशुभप्रवर्तिना । सप्तधा काययोगेन भवातीता निराम्रवाः ॥ १८० ॥ स्थूला विकुर्वते पूर्णास्तेजःपवनकायिकाः। पंचाक्षाश्वतनूभाजां परेषां नास्ति विक्रिया ।। १८१ ॥ विग्रहौं समस्तानां कायौ तैजसकामणौ । युक्तौ वैक्रियिकेनेमो स्वर्गश्वभ्रनिवासिषु ॥ १८२ ।।
१ ऋतुशब्दः गतौ प्रवर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org