________________
( २३)
ध्यानेन नाशितो येषां कायबन्धः कृशानुना । हेमाश्मनामिवाशेषो मलस्ते सन्त्यकायिकाः ॥ १६४ ॥ आत्मनो वीर्यविघ्नस्य क्षयोपशमने सति । यः प्रदेशपरिस्पंदः स योगो गदितस्त्रिधा ॥ १६५ ॥ प्रत्येकं वाङ्मनोयोगी सत्यासत्यद्वयाद्वयैः । चतुर्धा कथितः प्राज्ञैः काययोगस्तु सप्तधा ।। १६६ ॥ सत्यं मनो यथावस्तु प्रवृत्तं परथा मृषा । द्वये सत्यमृषा ज्ञेयमस्त्यसत्यमृषाऽद्वये ॥ १६७ ॥ यथेति मनसो योगश्चतुर्धा प्रतिपादितः । वाचिकोऽपि तथा ज्ञेयो योगनिग्रहणोद्यतैः ॥ १६८॥ जनान्त सम्मति न्यास नाम रूप प्रतीतिषु । सत्यं संभावने भाव्ये (वे) व्यवहारोपमानयोः॥ १६९ ॥ इत्थं सत्यवचो योगो दशधातोऽन्यथा पृषा । द्वाभ्यां सत्यमृषा ताभ्यां युक्तोऽसत्यमृषान्यथा ॥ १७० ॥ वागसत्यमृषा ज्ञेया विकलाक्षशरीरिणाम् । योगिनां संज्ञिनां चैषा याचनामंत्रणादिका ॥ १७१ ॥ १ भत्तं देवी चंदप्पहपडिमा तहय होदि जिणदत्तो।
सेदो दिग्घो रज्झदि कूरोत्तिय जे हवेवयणं ॥ गो.सा.२२३ ॥ सको जम्बूदीवं पल्लट्टदि पापवजवयणं च । पल्लोवमं च कमसो जणपदसञ्चादि दिटुंता ।। २२४ ।। २ आमंतणि आणवणी याचणिया पुच्छणी य पण्णवणी । पञ्चक्खाणी संसयवयणी इच्छाणुलोमा य ॥ २२५ ।। णवमी अणक्खरगदा असञ्चमोसा हवंतिभासाओ । सोदारणं जम्हावत्तावत्तंस संजणया ।। २२६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org