________________
( २१ )
अहमिन्द्रा वैकैकमीशन्ते यानि सर्वदा । तानीन्द्रियाण्यहनि विज्ञेयानि विचक्षणैः ॥ १४२ ॥ यवनालमसूरातिमुक्तकेन्द्रर्धसन्निभाः ।
श्रोत्राक्षिघ्राणजिह्वाः स्युः स्पर्शनेऽनेकधाकृतिः ॥ १४३ ॥ एकाक्षे स्पर्शनं जन्तावेकैकं वर्धते ततः ।
अन्येषु रसनं घ्राणं चक्षुः श्रोत्रं यथाक्रमम् ॥ १४४ ॥ अस्पृष्टं दृश्यते रूपं स्पृष्टः शब्दो निशम्यते । सदा गन्धो रसः स्पर्शो द्वैः स्पृष्टोऽवबुद्धयते ॥ १४५ ॥ वेदनं दर्शनं भोगं स्वामित्वं कुरुते यतः । एकेन स्पर्शनेनोक्त एकाक्षः पंचधा ततः ॥ १४६ ॥ जलूकाशुक्तिशम्बूकगण्डूपदकपर्दिकाः । जठरकुमिशंखाद्या द्वीन्द्रियादेहिनो मताः ॥ १४७ ॥ कुन्थुः पिपीलिका गुंभी यूका मत्कुणवृश्चिकाः । मॅकटकेन्द्रगोपाद्यास्त्रीन्द्रियाः सन्ति देहिनः ॥ १४८ ॥ पतङ्गा मशका देशा मक्षिकाः कीटगर्मुतः । पुत्तिका चंचरीकाद्याश्चतुरक्षाः शरीरिणः ।। १४९ ॥ नारका मानवा देवा तिर्यचश्च चतुर्विधाः । सामान्येन विशेषेण पंचाक्षा बहुधास्थिताः ।। १५० ।। इन्द्रियार्थसुखातीता लोकालोकविलोकिनः । क्षायिकातीन्द्रियज्ञाना जीवाः सन्ति निरिन्द्रियाः ।। १२१ ॥
कर्मभारं वहत्यङ्गी कायमादाय सर्वदा ।
सुदुर्वहं महाभारं कवटीमिव कर्मठः ।। १५२ ॥
१ प्रभवन्ति । २ अहङ्कारयुक्तानि । ३ स्पृष्टः । ४ पृथिव्यादिभेदेन । ५ मंकोडा | ६ मधुमक्षिकाः । ७ नीलमक्षिकाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org