________________
(20)
संज्ञी चाहारकः प्रोक्तास्ताचतुर्दश मार्गणाः । मिथ्यादृशादयो जीवा मार्ग्या यासु सदादिभिः ।। १३३ ।। ४-५-६-१५-३-४-८-७-४-६-२-६-२-२ । नरो गत्यामपर्याप्तः संयमे सूक्ष्मसंयमः | साहारद्वय योगे मिश्रवैक्रियिकः परः ।। १३४ ॥ सम्यक्त्वे शामिको मिश्रः सम्यग्दर्शनविच्युतः । सन्ति मार्गणाचाष्टौ पराः सन्ति निरन्तराः ।। १३५ ।। गतौ १ । संयमे १ | योगे ३ | सम्यक्त्वे ३ । मिलिताः ८ यया गच्छन्ति संसारं या कृतागतिकर्मणा । श्वभ्रगत्यादिभेदेन गतिः सास्ति चतुर्विधा ।। १३६ ।। न रमन्ते महादुःखा ये द्रव्यादिचतुष्टये । ये परस्परतो दीना नारकास्ते निरूपिताः ॥ १३७ ॥ कुटिला ये तिरोऽञ्चन्ति विवेकविकलाशयाः । मायाकर्मबलोत्पन्नास्ते तिर्यचः प्रकीर्तिताः ॥ १३८ ॥ यादेयानि मन्यन्ते ये मनोज्ञानलोचनाः । द्विधा म्लेच्छार्यभेदेन मानवास्ते निवेदिताः ।। १३९ ॥ दिव्यन्ति सर्वदाष्टाभिर्ये गुणैरणिमादिभिः । दिव्यदेहा मता देवाश्चतुर्धा ते विभास्वराः ॥ १४० ॥ जन्ममृत्युजरारागसंयोगविगमादयः ।
न यस्यां जातु जायन्ते सा सैद्धा गदिता गतिः ॥ १४१ ॥
१ सासादनः । २ अपर्याप्तमनुष्यस्य पल्योपमासंख्याततमभागः शून्यकालः । आहारकद्वितयस्य सप्ताष्टौ वर्षाणि । वैक्रियिकमिश्रे द्वादशमुहूर्ताः । सूक्ष्मसंयमे षण्मासाः । सासादनमिश्रयोः पल्योपमासंख्याततमभागः दिनानि औपशमिके |
सप्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.