SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ( २२८ ) पृथिवीष ं बंधप्रकृतिशतां नरायुषा हीनमोघेन सप्तमे नरके: ९९ । मिथ्यादृष्टौ ९६ । सासने ९१ । मिश्रे ७० । निर्वते ७० । एवं नरकगतिः समाप्ता । प्रकृती रहितास्तीर्थकर्तृत्वाहारकद्विकैः । तिर्यचो गृह्णते सर्वाः सामान्येन विसंशयम् | ११७ ।। १६ ।। तिर्यञ्चस्तास्तिरश्च्यपि पर्याप्ता वामदृष्टयः । बनंति प्रकृतीः सर्वाः सासनाः षोडशोज्झिताः ॥ १७ ॥ मिथ्यादृशः ११७, ३ । सासनः १०१ । मर्त्यदेवायुषी मर्त्यद्वयमौदारिकद्वयम् । पंचविंशतिमोघोक्तां विमुच्याद्यां च संहतिम् ॥ १८ ॥ एकोनसप्ततिं मिश्रा शेषाः स्वीकुर्वते ततः । सप्ततिं गृहते युक्ता निर्वतास्ताः सुरायुषा ॥ १९ ॥ ।। मिश्राः ६९, ३२ । निर्वताः ७० । तिर्यचो गृहते हीना द्वितीयैस्ताः क्रुधादिभिः । एकं स्त्रीपुरुषाः पूर्णाः पंचाक्षा देशसंयताः ॥ २० ॥ मुक्त्वा वैक्रियिकं पङ्कं नारकत्रिदशायुषी । स्वीकुर्वन्त्योघतो पूर्णाः शतं शेषं नवोत्तरम् । १०९ ।। २१ ।। इति तिर्यग्गतिः समाप्ताः । प्रथमाः पंच बनंति तिर्यग्वत्प्रकृतीर्नराः । चतुर्थाः पंचमास्तत्र परं तीर्थकराधिका ॥ २२ ॥ शतं नवोत्तरं मास्तास्तिर्यग्वदपूर्णकाः । समर्जन्ति प्रमत्ताद्याः प्रकृतीरौधिकी स्फुटा ॥ २३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy