SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ (२२९) प्रथमाः मिथ्यादृष्टयादयः पंच ११७ । १०१।६९।७१। ६७ । प्रमत्ताद्याः सर्वे ६३।५९।५८,५६,२६।२२....१८॥ १७०१ । अपूर्णा मनुष्याः १०९ । इति मनुष्यगतिः समाप्ता । सूक्ष्म वैक्रियिकं षटुं साधारणमपूर्णकम् । आहारकद्वयं द्वन्द्वं नारकत्रिदशायुषोः ॥ २४ ॥ विकलत्रितयं मुक्त्वा षोडशप्रकृतीरिमाः। अपराः गृह्णते देवाश्चतुर्भिः सहितं शतम् ॥ २५ ॥ ओघेन देवाः १०४। विना तीर्थकृता शेष मिथ्यादृक् व्युत्तरं शतम् । एकेन्द्रियमसंप्राप्तं मिथ्यात्वं हुंडमातपम् ॥ २६ ॥ पंढकं स्थावरं सप्त त्यक्त्वा षण्णवतिः पराः। प्रकृतीः सासनः सर्वाः स्वीकरोति विसंशयम् ॥ २७ ॥ मिथ्यादृष्टिः १०३ । सासनः ९६ । हित्वा मायुषा युक्तामोघोक्तां पंचविंशतिम् ।। एताभ्यो गृह्णते मिश्राः सप्ततिं प्रकृतीः पराः । ७० ॥ २८ ॥ मायुस्तीर्थकर्तत्वयुक्तां द्वासप्ततिं ततः ।। प्रकृतीः परिगृह्णाति सम्यग्दृष्टिरसंयतः । ७२ ॥ २९ ॥ प्रथमे गृह्णते सर्वे निकायत्रितये सुराः। चतुर्निकायजाः देव्यः स्थिता गुणचतुष्टये ॥ ३० ॥ प्रकृतीस्त्रिदशौघोक्तास्तीर्थकर्तृत्ववर्जिताः। त्रैदशीरौघिकीः सर्वाः सौधर्मेशानकल्पगाः ॥ ३१॥ भावनादिष्योधेन १०३ । मिथ्यागादिषु चतुर्यु १०३। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy