________________
( २२७)
आये षोडश बंधा द्वितीयके पंचविंशतिस्तुर्ये । दश पंचमे चतस्रः षट् षष्ठे सप्तमे चैका ।। ६ ॥ द्वे त्रिंशचतस्रो पूर्वे नवमे क्षणेषु चैकैकाः । पंचसु विच्छिद्यते षोडश सूक्ष्मे जिने सातम् ।। ७॥ आद्यं जातिचतुष्कं श्वभ्रत्रिदशायुषी सुरद्वन्द्वम् । सूक्ष्मस्थावरसाधारणातपापूर्णनारकयुगानि ॥ ८॥ वैक्रियिकाहारकयोयुग्मे चैकोनविंशतिं हित्त्वा । शतमेकोतरमन्याः प्रकृतीः स्वीकुर्वते श्वाभ्राः ॥९॥ आधस्तीर्थकृतोना हुंडासंप्राप्तषंढमिथ्यात्वैः । सासादनो विहीनः सप्ततिमथ मिश्रकः श्वाभ्रः ॥१०॥ त्यक्त्वा मायुषा युक्तामोघोक्तां पंचविंशतिम् । मिश्रे षणवतेझेंया सप्ततिः सासने स्थितेः ॥११॥ निर्बतसम्यग्दृष्टिमायुस्तीर्थकृत्वयुक्तां ताम् । सप्तमनरके हीनं नरायुषा शतमुपादत्ते ॥ १२ ॥ मर्त्यद्वितयोचोनं मिथ्यादृष्टिस्तदत्र बध्नाति । मिथ्यात्वतिर्यगायुर्हडास्यां प्राप्तढोनम् ॥ १३ ॥ बनाति सासनाख्यः सासादनपंचविंशतिं त्यक्त्वा । तिर्यग्जीवितहीनां मर्त्यद्वयगोत्रसंयुक्ताम् ॥ १४॥ . मिश्रावतसदृष्टी बनीतः सप्तमे स्फुटं श्वभ्रे । श्वभ्रगतिर्निीता विज्ञातव्या पराप्येवम् ॥ १५॥
ओघेन नरके बंधप्रकृतयः-१०१,९९ । मिथ्यादृष्टौ१००,२० । सासने-९६,२४ । मिश्रे ७० । निव्रते ७२ । चतुर्थपंचमषष्ठश्वभ्रेषु चतुर्थगुणे तीर्थकृता विना ७१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org