SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ( २१२ ) शतत्रयाष्टषष्टिश्च सहस्रा पंचविंशतिः । पदसंख्या विबोद्धव्या त्रिवेदी प्रति मोहने ॥ ७६५ ॥ २५३६८ । त्रिसंयमगुणाः पाकाः षष्ठसप्तमयोर्मताः । अपूर्वे गुणिता द्वाभ्यां सर्वे तीर्थकरैर्हताः ॥ ७६६ ॥ षष्ठसप्तमयोरुदयाः ८८ । संयमत्रयहताः २४।२४ | अपूर्वे पाकाः ४ । द्विसंयमगुणाः ८ । चतुर्विंशतिगुणाः सर्वे ५७६ । ५७६।१९२ | सर्वैक्ये १३४४ । षोडशैकस्तथा पाकाः संयमे गुणिताः क्रमात् । अनिवृत्तौ तथा सूक्ष्मे द्वाभ्यामेकेन कोविदैः ॥ ७६७ ॥ अनिवृत्ताबुदयाः १६ । संयमद्वयगुणाः ३२ । सूक्ष्मे पाकाः २ । एकसंयमगुणे मिलिताः । सप्तसप्ततियुक्तानि त्रयोदश शतानि ते । विकल्पाः संति पाकानां संयमं प्रति मोहने | १३७७ || ७६८ || षष्ठसप्तमयोः पाकास्त्रिभिर्द्वाभ्यां च संयमैः । हत्वा प्रकृतिसंघातांस्ताडयेत्तीर्थकारिभिः ॥ ७६९ ॥ प्रमत्ताप्रमत्तयोः पदबंधाः ४४|४४ | संयमत्रयाभ्यस्ताः १३२/१३२ | अपूर्वे पदबंधाः २० । द्विसंयमगुणाः ४० । चतुर्विंशति गुणाः ३१६८/३१६८/९६० | सर्वैक्ये ७२९६ । द्वयं द्वादशभिर्हत्वा चतुर्भिरेककं पुनः । संयमद्वितयाभ्यस्ता विधेयमनिवृत्तिके ।। ७७० ॥ अनिवृत्तौ द्वौ द्वौ द्वादशगुणौ २४ । एकश्चतुर्गुणः ४ । द्वापि द्विसंयमगुणौ ५६ । एकः सूक्ष्मे १ | एकसंयमगुणः १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy