________________
एते मिलिताः द्वाविंशतिः २२ त्रैराशिकेन लब्धा योगिजिनाः॥ अष्टलक्षाणि लभ्यन्ते जिनानां जितजन्मनाम् । सहस्राष्टानवत्यामा युत्तरं शतपंचकं ।। ९१ ॥ चत्वारः श्वाभ्रदेवेषु पंच तिर्यक्षु भाषिताः । नृषु सर्वे गुणा जैनैरेकमेकेन्द्रियादिषु ॥ ९२ ॥ अनेकेऽनेकधा जीवा यैर्जायन्ते स्वजातिजाः। ज्ञेया जीवसमासास्ते समासेन चतुर्दश ॥ ९३ ॥ एकाक्षा बादराः सूक्ष्मा ब्यक्षाद्या विकलास्त्रयः । पंचाक्षाः संज्यसंज्ञाख्याः सर्वे पर्याप्तकेतरे ॥ ९४ ॥ एकेन्द्रियेषु चत्वारः समासा विकलेषु षट् । पंचेन्द्रियेषु चत्वारो भवन्त्येते चतुर्दश ।। ९५ ॥ चतुर्दशसु पंचाक्षः पर्याप्तस्तत्र वर्तते । एतच्छास्त्रमतेनाये गुणस्थानद्वयेऽपरे ॥ ९६ ॥ पूर्णः पंचेन्द्रियः संज्ञी चतुर्दशसु वर्तते । सिद्धान्तमततो मिथ्यादृष्टा सर्वे गुणे परे ॥ ९७ ॥ चतुर्दशाङ्गिनां भेदा एकविंशतिरीरिताः ।। त्रिंशत्सद्विषडष्टाग्रा चत्वारिंशद्युताष्टभिः ॥ ९८ ॥ चतुः पंचाशदर्थज्ञैः सप्तपंचाशदप्यतः।। विज्ञाय संयतै रक्ष्या विशेषेणेति सर्वदा ॥ ९९ ॥ १ अस्मादयेतनो मूलपाठः ।
० १,० ०(१४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org|