________________
(१९०) सत्तत्र क्षपिते तस्मिन्नशीत्यादिचतुष्टयम् । तत्सूक्ष्मादित्रये सत्वे निर्योगोपांतिमे क्षणे ॥ ६४८ ॥ प्रोक्ता दश नव प्राज्ञैर्नियोगस्यांतिम क्षणे । शमकचतुष्कापूर्वानिवृत्याधनवांशेषु ॥ ६४९ ॥ ९२ । ९२ । ९१ । ९०। ___ अनिवृत्तिशेषनवांशाष्टकसूक्ष्मक्षीणसयोगनिर्योगोपांतिमक्षणेषु सत्त्वे ८० । ७९ । ७८ । ७७ । निर्योगांत्यक्षणे १०।९।
एवं नामप्ररूपणा समाप्ता। स्थानानां त्रिविकल्पानां कर्त्तव्या विनियोजना। अतो जीवगुणस्थाने क्रमतः सर्वकर्मणाम् ॥ ६५० ॥ बंधनोदयसत्त्वेषु ज्ञानावृत्त्यंतराययोः । पंच जीवसमासेषु निबंधे पाकसत्त्वयोः ॥ ६५१ ॥ ___ जीवसमासेषु त्रयोदशसु बंधे ५। उदये ५। सत्त्वे ५। चतुर्दशे संज्ञिनि पर्याप्ते मिथ्यादृष्टयादिसूक्ष्मान्ते बंधत्रये, बंधे ५। उदये ५। सत्त्वे ५। निर्बन्धोपरतबंधयोरुपशांतक्षीणयोः पाके सत्त्वे च ५।५।। त्रयोदशसु दृग्रोधे नव बंधनसत्त्वयोः । चतस्रः पंच वा पाके पूर्ण संज्ञिनि भाषिताः ॥ ६५२ ॥ गुणस्थानोदिता भंगा जीवस्थाने चतुर्दशे । वेद्यायुर्गोत्रकर्माणि भाषित्वा वच्मि मोहनम् ।। ६५३ ।। - त्रयोदशसु, बं. ९,९ । उ. ४,५। स. ९,९ । संज्ञिनि पूर्णे मिथ्यादृष्टिसासनयोः, ९,९ । ४,५। ९,९ । मिश्राद्य
२ छन्दोभंगः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.