________________
(१८२)
भाषापर्याप्तिपर्याप्ते प्रथमात्क्षणतः स्थितिः । जीवितव्यावधिः प्रोक्ता कृतजीवितनिश्चयैः ॥ ५९२ ॥ दशवर्षसहस्राणि त्रयस्त्रिंशत्पयोधयः । अंतर्मुहूर्तहीने स्तस्ते जघन्याजघन्यके ।। ५९३ ॥ सकलान्तर्मुहूर्तांना पूर्णभाषे स्थितिर्जिनैः । प्रोक्तोपपादिकेग्न्यत्र जघन्यांतर्मुहार्तिकी ॥ ५९४ ॥
इति देवगतिः समाप्ता। सैकादशाः स्मृताः पाकाः षड्सप्ततिशतप्रमाः । एकोनषष्टिरन्यास्ति समुद्धातगते जिने ॥ ५९५॥ ७६११ । समुद्धातगते नाम्नः पाका ५९ । त्रिद्वयेकसहिता सत्वे नवतिर्नवतिः परा । क्रमादष्टचतुर्यग्राऽशीतिः सा च निवेदिता ।। ५९६ ॥ निरेकद्वित्रिकाशीतिर्नाम्नो दश नवापराः । सत्त्वस्थानानि विज्ञाय योज्यानीति त्रयोदश ॥ ५९७॥ ९३२९२२९१।९०1८८८४/८२८०७९/७८७७१०१९। तत्र त्रिनवतिः सर्वास्त्रीर्थेशाहारकाद्विकैः। हीनाः स्थानत्रये कार्याः क्रमादेकद्विकत्रिभिः ॥ ५९८ ।। आद्य स्थाने ९३ । त्रिष्वतः स्थानेषु ९२२९१।९० । त्यक्ते देवद्वये श्वभ्रचतुष्के नृद्वये क्रमात् । नवतेनरतिर्यक्षु स्थानानां त्रितयं स्मृतम् ॥ ५९९ ।। नरतिर्यक्षु ८८ । ८४ । तिर्यक्षु ८२ । तिर्यनारकयोयुग्मे एकाक्षं स्थावरातपौ । विकलत्रिकमुद्योतं सूक्ष्म साधारणाह्वयम् ।। ६०० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org .