________________
(१८१) तत्रैकविंशतं पूर्व देवद्वितयकार्मणे । स्थूलं शुभस्थिरद्वन्द्वे यशो वर्णचतुष्टयम् ।। ५८५ ॥ पंचाक्षसुभगादेये तेजोऽगुरुलघुत्रसम् । निर्माणमिति वक्रतावेकद्वित्रिक्षणस्थितिः ॥ ५८६ ॥ २१ । भंगः १। तदपास्तानुपूर्वीकं पांचविंशतमन्वितम् । प्रत्येकचतुरस्रोपघातवैक्रियिकद्विकैः ॥ ५८७ ।। इदं गृहीतदेहस्य यावदेहस्य पूर्णताम् । एको भंगोऽस्य कालस्तु भवेदन्तर्मुहूर्त्तकः ॥ ५८८ ॥ २५ । भंगः १। सत्खगत्यन्यघाताभ्यां तद्युक्तं साप्तविंशतम् । कालोऽप्यस्यांगपर्याप्तौ विज्ञेयोऽन्तर्मुहर्तकः ॥ ५८९ ॥ २७ । भंगः १। पर्याप्तानस्य सोच्छासं तदाष्टविंशतं स्मृतम् । यावद्वचनपर्याप्तिस्तावत्कालोऽस्य भाषितः ॥ ५९० ॥ २८ । भंगः १। एकोनत्रिंशतं भाषापर्याप्तौ तत्ससुस्वरम् । जीवितव्यावधिः कालो भंगानामेषु पंचकम् ॥ ५९१ ॥ २९ । भंगः १ । एकत्र ५। १ तच्छिगिवीसं ठाणं देवदुगं तेज कम्म वण्णचहूँ ।
अगुरुयलहुपंचिंदिय तस वारय पज्जत्तं ।। थिरमथिरं सुभमसुमं सुहयं आदेजयं च सणिमिणं । विग्गहगई हिएए एकं वा दोव समयाणि ।।
(प्राकृतपंचसंग्रहात् )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org