________________
( १८० )
२६ | भंगाः ६ |
परघातखगत्यन्यतराभ्यां सहितं मतम् । तदाष्टाविंशतं स्थानं योगिनो दंडयायिनः ॥ ५७९ ॥ २८ | अत्र द्वादश भंगाः १२ । तदुच्छ्रासयुतं स्थानमेकोनत्रिंशतं स्मृतम् । आनपर्याप्तपर्याप्ते गाः पूर्वनिवेदिताः ।। ५८० ॥ २९ | भंगाः १२ ।
त्रैशतं पूर्णभाषस्य स्वरैकतरसंयुतम् । चतुर्विंशतिरत्रोक्ता भंगा भंगविशारदैः ।। ५८१ ॥ ३० | भंगाः २४ ।
पृथक्तीर्थकृता योगे स्थानानां पंचकं परम् । प्रथमं तत्र संस्थानं प्रशस्तौ च गतिस्वरौ ।। ५८२ ॥
इति तीर्थकृति सयोगे स्थानानि । २१ । २७ । २९ । ३० । ३१ । एकैकेन पंचसु भंगा: ५ । एवं सयोगभंगाः ६० । अत्रैकत्रिंशतं स्थानं पंचमं पूर्वभाषितम् ।
भंगो न पुनरुक्तत्वात्तदीयः परिगृह्यते ।। ५८३ ॥
शेषाः ५९ । सहतैस्ते पूर्वादिता: २६०९ । एतावंतः २६६८ | इति सर्वे नृगतिभंगाः ।
एवं मनुष्यगतिः समाप्ता ।
अस्येक पंचसप्ताष्टनवाग्रा विंशतिः क्रमात् । नानो दिवौकसां तावुदये स्थानपंचकम् ॥ ५८४ ॥
२१ | २५ | २७ । २८ । २९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org