SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ (१७७) तत्रैकविशतं तीर्थकृत्वाहारकोज्झिते । पंचेन्द्रियं नरद्वन्द्वं तेजोऽगुरुलघुत्रसम् ॥ ५५३ ॥ निर्माणं सुभगादेययशः पर्याप्तनामसु । युगेष्वेकतरं वर्णचतुष्कं स्थूलकार्मणे ॥ ५५४ ॥ शुभस्थिरद्वये भंगा एकद्वित्रिक्षणस्थितौ । वक्रत्तौं पूर्णपाकेऽष्टावेकोऽन्यत्रोभये नव ॥ ५५५ ॥ *२१ । पूर्णपाके भंगाः ८ । अपूर्णपाके १ । उभये ९ । प्रत्येकौदारिकद्वन्द्वोपघातसहितं स्मृतम् । तत्संस्थानस्य संहत्याः षट्स्यैकतरेण च ॥ ५५६ ॥ स्थानं पदिशतं दक्षैरात्तदेहस्य देहिनः । निराकृतानुपूर्वीकं यावद्देहस्य पूर्णताम् ॥ ५५७ ॥ पर्याप्तस्योदये भंगा द्वादशोनं शतत्रयम् । एकोऽन्यस्योदये कालः कथितोऽन्तर्मुहूर्त्तकः ॥ ५५८ ॥ पर्याप्तोदये भंगाः २८८ । अपर्याप्तोदये १ । सर्वे २८९ । तदाष्टाविंशतं प्रोक्तमपर्याप्तविवर्जितम् । परघातखगत्येकतरयुक्तं शरीरिणः ॥ ५५९ ॥ शतानि पंच भंगानां षट्सप्तत्या सह स्फुटम् । पर्याप्तांगस्य निर्दिष्टः कालोऽत्रान्तमुहूर्तकः ॥ ५६० ॥ २८ । भंगाः ५७६ । सोच्छासमानपर्याप्तावेकोनात्रिंशतं मतम् । बुधैरत्रावबोद्धव्याः स्थितिभंगाः पुरातनाः ॥५६१ ॥ २९ । भंगाः ५७६। स्वरैकतरसंयुक्तं वाक्पूर्णे त्रिंशतं मतम् । अत्र द्विताड़िता भंगाः परा पल्यत्रयं स्थितिः ॥ ५६२॥ १२ पं. सं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy