________________
( १७८)
३० । भंगाः ११५२ । सर्वे मिलिताः २६०२। आहारकोदयालीढे विशेष्टे नरनामनि । उदये पंचसप्ताष्टनवाग्रा विंशतिर्मता ॥ ५६३ ॥ २५ । २७ । २८ । २९ । पांचविंशतमत्रेदं नृगत्याहारकद्विके । कार्मणं सुभगादेये तेजो वर्णचतुष्टयम् ॥ ५६४ ॥ चतुरस्रोपघाताख्ये निर्मित्त्रसचतुष्टयम् । पंचाक्षागुरुलध्वाह्वे शुभस्थिरयुगे यशः ॥ ५६५ ॥ आहारकोदयेस्तीदं यावत्तदेहपूर्णताम् । ससद्गत्यन्यघातं तत्पूर्णागे साप्तविंशतम् ।। ५६६ ॥ २५ । भंगाः १ । २७ । भंगः १ । पूर्णोच्छ्वासस्य सोच्छासमष्टविंशतमस्त्यदः । एको भंगोत्र कालस्तु विज्ञेयोऽन्तर्मुहूर्तकः ॥ ५६७ ॥ २९ । भंगः १। एकोनत्रिंशतं स्थानं पूर्णेऽवाचि ससुस्वरम् । कालभंगौ मतौ पूर्वावैक्ये भंगचतुष्टयम् ॥ ५६८ ॥ २९ भंगौ २। विशेषमनुष्ये भंगाश्चत्वारः ४ । तत्रैकत्रिंशतं ज्ञेयं योगिनस्तीर्थकारिणः। आधे संहतिसंस्थाने नृगत्यौदारिकद्वये ॥ ५६९ ॥ पंचाक्षं कार्मणादेये तीर्थकृत्सुभगं यशः। वर्णाद्यगुरुलध्वादि त्रसादीनां चतुष्टयम् ।। ५७० ॥ निर्मिच्छुभस्थिरद्वन्द्वे तेजः सद्गतिसुस्वरे । पूर्वकोटी परा वर्षपृथक्त्वं त्वपरा स्थितिः ॥ ५७१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org