SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ (१७४) २१०२६।२८॥२९॥३०॥३१॥ तान्यनुद्योतपाकस्य संत्येकत्रिंशतं विना । उद्योतपाकयुक्तस्य संत्यष्टविशतं विना ॥ ५३२ ।। उद्योतोदयरहिते पंचेंद्रिये २१।२६।२८।२९।३०। उद्योतोदयसहिते २११२६।२९।३०।३१। अनुद्योतोदयस्येदं पंचाक्षस्यैकविंशतम् । तिर्यग्वितयपंचाक्षे तेजोगुरुलघुत्रसम् ।। ५३३ ॥ पर्याप्तसुभगादेययशः कीर्तिद्विकैककम् । निर्माणं कामणं स्थूलं वर्णानां च चतुष्टयम् ॥ ५३४ ॥ शुभस्थिरद्वये भंगा एकद्वित्रिक्षणस्थितौ ।। वक्रत्तौं पूर्णपाकेऽष्टावेकेऽन्यत्रोभये नव ॥ ५३५ ॥ । अत्र पूर्णोदये भंगाः ८ । सुभगादेययश कीर्तिभिः सहापूर्णोदयाभावादपूर्णोदये भंगाः १ । सर्वे ९ । इदं त्यक्त्वाऽऽनुपूर्वीकं स्थानं षाद्विशतं स्मृतम् । क्षिप्ते संस्थानसंहत्योरेकत्रौदारिकद्विके ॥ ५३६ ॥ प्रत्येक उपधाते च स्वीकृतांगस्य देहिनः । आनपर्याप्तिपर्यन्ता स्थितिरन्तर्मुहूर्तिकी ॥ ५३७ ॥ अस्य पूर्णोदये भंगा द्वादशोनं शतत्रयम् । एकोऽपूर्णोदये ज्ञेयो भंगमार्गविचक्षणैः ॥ २६ । ५३८॥ अत्र पूर्णोदये संस्थानषसंहतिषटूयुग्मत्रयाणां ६।६।२।२।२। परस्पराभ्यासे भंगाः २८८ । शुभैः सहापूर्णोदयस्याभावादपूर्णोदये भंगाः १। उक्तं चं Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy