________________
(१६७) भंगः १। एकात्रंशदियं त्रिंशदुक्ता तीर्थकरोचिता । बध्यते निःप्रमादेन साऽपूर्वकरणेन च ॥ ४८० ॥ __ अत्र यतोऽस्थिरादीनां बंधो नास्ति विशुद्धया सह बंधविरोधात् । ततो भंगौ २। आहारकद्वयत्यागे मतैकत्रिंशतो बुधैः। एकोनत्रिंशदाद्यासौ बध्यते सप्तमाष्टमः ॥४८१ ॥
अत्र भंगः पुनरुक्तः २। एकोनत्रिंशदियं त्रिभिरव्रतपूर्वकैः समाचर्या, स्थिरशुभयशोयुगानामेकतरेणान्विताऽन्यास्ति । अत्र देवगत्या सहयोतो न बध्यते तस्यां तस्योदयो नास्ति, तिर्यग्गतिं मुक्त्वाऽन्यगत्या सह तस्य बंधविरोधाच । देहदीप्तिस्तु देवानां वर्णनामकर्मोदयात् । अत्र त्रयाणां युगानां २।२।२। परस्परबर्धे भंगाः ८। एकत्रिंशदपास्ते तीर्थकराहारकद्वन्द्वे । अष्टाविंशतिराद्या स्वीकार्या सप्तमाष्टमकैः ॥ ४८२ ॥ एकोनत्रिंशतोऽपास्ते तीर्थकृत्वे प्रवध्यते । अष्टाविंशतिरन्यासौ सर्वदा षभिरादिनः ॥ ४८३॥
कुतो यतोऽप्रमादादीनामस्थिराशुभायशसां बंधो नास्ति भंगा ८ । सर्व देवेषु भंगाः १९ । अपूर्वाख्यानिवृत्याख्यसूक्ष्मलोभायास्त्रयः । एकं यशो निवनंति न परं नामकर्माण ॥४८४ ॥ मिलितानामशेषाणां पंचपंचाशता विना । चतुर्दशसहस्राणि विकल्पाः संति नामनि ॥ ४८५ ॥ १ 'उपार्जनीया' इत्यपि पाठः । २ गुणने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org