________________
(१६८) १३९४५ । नाम्न उदयस्थानानि कथ्यन्तेअत्रैकविंशतः पाके चतुर्विंशतिरिष्यते । सैकद्वित्रिचतुः पंचषट्सप्ताग्रा नवाष्ट च ।। ४८६ ।। २१।२४।२५।२६।२७।२८।२९।३०।३१।९।८। तत्रैकंपचसप्ताष्टनवाग्रा विंशतिः क्रमात् । याकस्थानानि जायंते पंच श्वाभ्रगताविति ॥४८७ ।। २१।२५।२७।२८।२९ ।। एकविंशतिमत्रेदं कार्मणं नारकद्वयम् । पर्याप्तागुरुलध्वावे तेजोवर्णचतुष्टयम् ॥४८८ ॥ पंचेन्द्रियमनादेयमयशो दुर्भगं त्रसम् । स्थूलं शुभस्थिरद्वन्द्वे निर्माणमिति भाषितम् ॥ ४८९ ॥ विग्रहर्तिमुपेतस्य नारकस्योदयस्य च । एको जघन्यतो ज्ञेयः समयौ द्वौ प्रकर्षतः ॥ ४९० ॥ २। भंगः १। त्यक्तश्वभ्रानुपूर्वीकं तद्युक्तं पांचविंशतम् ।। प्रत्येकांगोपघाताख्यहुंडवैक्रियिकद्वयैः ॥ ४९१ ।। इदमात्तशरीरस्य ज्ञेयं श्वाभ्रस्य पूर्णताम् । यावच्छरीरपर्याप्तिर्गच्छंत्यतर्मुहर्तिकी ॥४९२ ॥ २५ । भंगः १। नास्त्यत्र संहतेः पाको देवनारकयोयतः । न तस्यां जायते बंधः कदाचन निसर्गतः ॥ ४९३ ॥ असद्गत्यन्यघाताभ्यां तद्युक्तं सप्तविंशतम् । . पूर्णागस्यानपर्याप्तिं यावत्कालोऽस्य जायते ॥ ४९४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org