________________
( १६३) यशः स्थिरशुभद्वन्द्वत्रितयैकतरत्रयम् । निमिद्विकलजात्येकमुद्योतासन्नभोगती ॥ ४४७॥ तिर्यरद्वयमनादेयं कार्मणं दुःस्वरं त्विमाम् । तृतीयां त्रिंशतिं मिथ्यादृष्टिर्बध्नाति दुष्टधीः ॥४४८॥ विकलेन्द्रियपर्याप्ततिर्यग्गतिभिरन्विताम् । अत्रान्योन्याहतैर्भगा जातित्रययुगत्रयैः ॥ ४४९॥ संस्थानं विकलाक्षाणां हुंडं भवति सर्वदा । जातिस्वभावतस्तेषां दुःस्वरं बंधपाकयोः ॥४५० ॥ ३।२।२।२। भंगाः २४ । यथेति त्रिंशतिस्तिस्र एकोनत्रिंशतस्तथा। परं भेदोऽयमेतासु यदुद्योतो न बध्यते ॥ ४५१ ॥ ४६०८ । २४ एते भंगाः राशौ नं गृह्यन्ते । सासनस्य ३२०० एते पूर्वोक्ता न गृह्यन्ते । पूर्वोक्तानादेये वोगुरुलघुचतुष्टयद्वितयम् । तिर्यग्द्वयमेकाक्षं तैजसमौदारिकं पूर्णम् ॥ ४५२ ॥ स्थिरशुभयशोयुगानामेकैकं दुर्भगाड्यं स्थूलम् । स्थावरमुद्योतातपयोरेकं कार्मणं हुंडम् ॥ ४५३ ॥ निर्माणं षड्विंशतिरेतां बध्नाति वृद्धमिथ्यात्वः । पूर्णैकेन्द्रियतिर्यग्गतिवादरसंयुतां जीवः ॥ ४५४ ॥ एकेन्द्रियजीवानामष्टांगाभावतो यतो नास्ति । अंगोपांग हुंडं संस्थानं जायते चैकम् ॥ ४५५ ॥
तस्मादातपोद्योतस्थिरास्थिरशुभाशुभयशोऽयशोयुगानां २॥ २।२।२। परस्पराभ्यासे भंगाः १६ । १ १ 'ख' पुस्तके "न" इत्यस्यपाठोनास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org