________________
पचेन्द्रियमादिवर्णादीनां वराशुभे ॥
(१६२) हुंडं श्वभ्रद्वयं निर्मित्कार्मणं सुभगास्थिरे । अयशोऽसनभोरीतिस्तैजसं दुःस्वराशुभे ॥ ४३८ ॥ त्रसाद्यगुरुलध्वादिवर्णादीनां चतुष्टयम् । पंचेन्द्रियमनादेयं द्वयं वैक्रियिकाह्वयम् ॥ ४३९ ॥ इत्यष्टाविंशतिस्थानमेकं मिथ्यात्ववासिताः । सश्वभ्रगतिपंचाक्षपूर्ण बनंति जन्तवः ॥ ४४०॥ २८। स्थानं १। भंगाः ११नरकगत्या सह वृत्तिविरोधादेकाक्षविकलाक्षजातिसंहननानि नात्र बध्यन्ते । एकत्रिंशद्धियुक्तैकद्विकपंचषडष्टकैः । पंच स्थानानि जायंते तिर्यग्गत्यामिति स्फुटम् ।। ४४१॥ ३०।२९।२६।२५।२॥ एकं संस्थानषटस्य षस्यैकं च संहतेः । पण्णां स्थिरादियुग्मानामेकैकं कर्म तैजसम् ॥ ४४२ ॥ नभोगतियुगस्यैकं निर्मिदौदारिकद्वयम् । वर्णाद्यगुरुलध्वादित्रसादीनां चतुष्टयम् ॥ ४४३ ॥ तिर्यद्वितयमुद्योतं पंचाक्षं त्रिंशदादिमा । पर्याप्तोद्योतपंचाक्ष तिर्यग्गतिसमन्विता ॥ ४४४ ॥ मिथ्यादृष्टिभिरेषात्र बध्यते सासनैरपि । द्वितीय त्रिंशदेषैव व्यन्त्यसंस्थानसंहतिः ॥ ४४५ ॥
तत्र प्रथमत्रिंशति संस्थानषसंहननषदनभोरीतियुग्मस्थिरादियुग्मषद्वानां ६।६।२।२।२।२।२।२।२। परस्पराभ्यासे भंगाः ४६०८ पुनरुक्तत्वान्न गृह्यन्ते । हुंडमौदारिकद्वन्द्वं तेजोऽसंप्राप्तदुर्भगे । त्रसाद्यगुरुलध्वादिवर्णादीनां चतुष्टयम् ॥ ४४६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.