________________
(१५८) भंगौ २ । एकबंधकस्य लोभसंज्वलनेनैकमुदयस्थानं १। अस्यैको भंगः १ । अबंधकस्यसूक्ष्मलोभस्य लोभसंज्वलनेनैकमुदयस्थानं १ अस्याप्येको भंगः। पंचदश सत्तास्थानानि कथ्यन्तेक्रमाद्वित्रिचतुःषट्सप्ताष्टनववर्जितम् । सप्तकं त्रिंशतां कृत्वा त्रिद्वयेकसहितान् दश ॥ ४१७ ॥ एकद्वित्रिचतुःपंचहीनान् षण्मोहकर्मणः । सत्त्वे पंचदश प्राहुः स्थानानीति मनीषिणः ॥ ४१८ ॥ २८।२७।२६।२४।२३।२२।२१।१।१२।१२।५।४।३।२।१। मोहेष्टाविंशतिः सर्वाः सम्यक्त्वे सप्तविंशतिः । क्रमात्षड्विंशतिर्मिश्रे भवत्युद्वेलिते सति ।। ४१९ ॥ २८ । २७ । २६ । अष्टाविंशतितः क्षीणे कषायाणां चतुष्टये ।। प्रथमेऽसति मिथ्यात्वे मिश्रसम्यक्त्वयोः क्रमात् ॥ ४२० ॥ कोपादिकाष्टके षंढे स्त्रियां हास्यादिगोचरे । षट्टे पुंसि क्रमानष्टे संज्वालानां त्रये सति ॥ ४२१॥ २४।२३।२२।२१।१३।१२।११।५।४।३।२।१॥ सत्त्वस्थानानि शेषाणि ज्ञेयानीति यथागमम् । उदस्थानयोगोऽतो बंधस्थानेषु कथ्यते ॥ ४२२ ॥ पंचस्वायेषु बंधेषु पंचपाका दशादिकाः । द्वौ परे द्विकमेको वा परेऽन्यष्येकको मतः ॥ ४२३ ॥ व २२२११७१३२/ अनिवत्तौ-व ५
सम
उ
|
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org