________________
(१५७)
तयुग्महास्यादियुगे सवेदे
___ स्थाने परत्रोदययोजनाय ॥ ५१६ ॥ अस्यार्थः-दशोदयस्थानतो मिथ्यात्वत्यागे नवोदयस्थानमेकविंशतिबंधके सासने ९। ततः कषायाणामादिचतुष्कत्यागे परचतुष्कत्रयैकतरत्रयग्रहे एकतरवेदादिपंचकग्रहे चाष्टोदयस्थानं, सप्तदशबंधकस्य सम्यमिथ्यादृष्टेरसंयतस्यौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेश्च ८ । ततो द्वितीयचतुष्कत्यागे परचतुष्कद्वयान्यतरद्वयग्रहे एकतरवेदादिपंचकग्रहे च सप्तोदयस्थानं, त्रयोदयबंधकस्य संयतासंयतस्यौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेश्व ७। ततस्तृतीयचतुष्कत्यागें चतुर्णा संज्वलनानामेकतरग्रहे एकतरवेदादिपंचकग्रहे च षदुदयस्थानं नवकबंधकानामौपशमिकक्षायिकसम्यग्दृष्टीनां प्रमत्ताप्रमत्तापूर्वाणां ६। ततो भयजुगुप्सयोरेकतरत्यागे पंचोदयस्थानं प्रमत्तादीनामेव ५ । ततो भयजुगुप्साद्वयत्यागे चतुरुदयस्थानं प्रमत्तादीनामेव ४॥ एषामुदयस्थानानां दशादीनाम् कषाय चतुष्कवेदत्रययुग्मद्वयानां परस्पराभ्यासे चतुर्विशतिभंगाः २४ । ततो हास्यादित्यागे च चतुर्णा सज्वलनानामेकरतरग्रहे त्रयाणां च वेदानामेकतरग्रहे सवेदस्यानिवृत्तेर्द्विकमुदयस्थानं २। अस्य द्वादश भंगाः १२ । चतुर्बधकस्यानिवृत्तेरुदयस्थाने द्वावेकश्च तत्राद्य द्वादशभंगाः। द्वितीये निर्वेदस्यानिवृत्तेश्वतुणी संज्वलनानामेकतरेणैकमुदयस्थानं १ । अस्य चत्वारो भंगाः ४ । त्रयबंधकस्य क्रोधवानां संज्वलनानामेकतरेणैकमुदयस्थानं १ । अस्य त्रयो भंमाः ३ । द्वयबंधकस्य क्रोधमानवज्ययोः संज्वलनयोरेकतरेणैकमुदयस्थानं १। अस्य द्वौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org