________________
( १५६ )
बंधे पुंवेदसंज्वालाः संज्वाला नवमे क्रमात् । एकद्वित्रिभिरूनास्ते मोहने क्रमतो बुधैः ॥ ४११ ॥ नवमे ५ । ४ । ३ । २ । १ ।
भंगाः षडादिमे' बंधे चत्वारस्ते द्वितीयके ।
3
द्वौ द्वौ त्रिषु परेषु स्यादेकैको मोहकर्मणः ॥ ४१२ ॥ ६।४।२।२।२।१।१।१।१।१।
उदयस्थानानि कथ्यन्ते
नव स्थानानि मोहस्य क्रमाद्दश दशोदये | एकद्वित्रिचतुः पंचषडष्टनववर्जिताः ।। ४१३ । १०|९|८|७|६|५|४|२|१|
मिथ्यात्वमेकमेकं च कषायाणां चतुष्टयम् । वेद एकतमो युग्मं हास्यादिष्वेककं भयम् ॥ ४१४ ॥ जुगुप्सेत्युदये सन्ति दश प्रकृतयः स्फुटम् । मिथ्यादृष्टिगुणस्थाने द्वाविंशतिनिबंधने ॥ ४१५ ।। युग्मम् ॥ तत्र मिथ्यात्वं १ | अनंतानुबंध्यप्रत्याख्यानप्रत्याख्यान संज्वलनेषु चत्वारः क्रोधमानमायालाभाः ४ । त्रिषु वेदेष्वेकतमो वेदः १ | हास्यरत्यरतिशोकयोरेकतरं युग्मं २ । भयं १ । जुगुप्सा १ । दशोदयस्थानमिदं द्वाविंशतिबंधस्थानानि मिथ्यादृष्टौ १० ।
मिथ्यात्वमाद्याः क्रमतो द्वितीया
स्त्याज्यास्तृतीया भयजुगुप्सनम् (१) ।
१ मिथ्यात्वे २२ स्थाने षट् भंगाः वेदत्रयहास्यादियुग्मद्वयगुणनेन । १२ वेद हास्यादियुग्मयगुणनेन ३ हास्यादियुग्मद्वयेन । ४ अत्रैकाक्ष
राधिक्येन छन्दोभङ्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org