________________
(७)
घातिकर्मक्षये लब्धा नवकेवललब्धयः । येनासौ विश्वतत्त्वज्ञः सयोगः केवली विभुः ॥४९॥ प्रदह्याऽघातिकर्माणि शुद्धध्यानकृशानुना । अयोगो याति शीलेशो मोक्षलक्ष्मी निराश्रवः ॥ ५० ॥ संप्राप्ताष्टगुणा नित्याः कर्माष्टक निराशिनः । लोकाग्रवासिनः सिद्धा भवन्ति निहितापदः ॥५१॥ मोहँद्वितयमाश्रित्य त्रयो ज्ञेया गुणा नवे । चारित्रमोहमन्ये द्वौ योगं गुणिभिरन्तिमौ ॥ ५२ ॥ मिथ्यादृष्टौ मतो मिश्रेभाव औदयिको जिनैः । संयोजनोदयोत्थाने सासने पारिणामिकः ॥ ५३॥ क्षायिकः शामिको भावः क्षायोपशमिकोऽथवा । वृत्तमोहोदयापेक्ष सम्यग्दृष्टावसंयते ॥ ५४ ॥ क्षायोशमिको भावो गुणानां त्रितये परे । क्षायिकः शामिकोऽन्यत्र शामिकः शान्तमोहने ॥ ५५ ॥ क्षायिकः क्षीणमोहेऽस्ति सयोगायोगयोरपि । आनुपूर्वीरिततेषामुत्तरोत्तरशुद्धितः ॥ ५६ ॥ मृच्छारंभपरित्यक्तमुपयोगगुणार्चितं । ते लिंगमपरापेक्षं संयता विभ्रते नवं ॥ ५७ ॥ रूपतः सदृशाः सर्वे त्यक्तबाह्यपरिग्रहाः । असदृक्षाः परीणामैरुपयुपरिशुद्धयः ॥ ५८ ॥
१ दर्शनचारित्रमोहं । २ अविरतादिक्षीणकषायान्ताः । ३ पंचमषठसप्तमगुणस्थानेषु । ४ अपूर्वकरणादित्रये । ५ भावानाम् । ६ प्रमत्ताययोगकेवलिपर्यन्ताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org