SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ (१४९) भागोऽसंख्यातिमः श्रेणेर्योगस्थानानि देहिनः ॥ ततोऽसंख्यगुणो ज्ञेयः सर्वप्रकृतिसंग्रहः ॥ ३६९॥ ततोऽसंख्यगुणानि स्युः स्थितिस्थानान्यतः स्थितेः । स्थानान्यध्यवसायानामसंख्यातगुणानि वै ॥ ३७० ।। असंख्यातगुणान्यस्माद्रसस्थानानि कर्मणाम् । ततोऽनंतगुणाः संति प्रदेशाः कर्मगोचराः ।। ३७१ ॥ अविभागपरिच्छेदाः सर्वेषामपि कर्मणाम् । एकैकत्र रसस्थाने ततोऽनंतगुणाः मताः ॥ ३७२॥ उपजातिवृत्तम् । कर्मप्रवादांबुधिविन्दुकल्प चतुर्विधो बंधविधिः स्वशक्तया । संक्षेपतो यः कथितो मयाऽसौ । विस्तीरणीयो महनीयबोधैः ॥ ३७३ ॥ वंधविचारं बहुतमभेदं यो हृदि धत्ते विगलितखेदम् ।। याति स भव्यो व्यपगतकष्टां सिद्धिमबंधोऽमितगतिरिष्टाम् ॥ गुणस्थानविशेषेषु प्रकृतीनां नियोजने । स्वामित्वमिह सर्वत्र स्वयमेव विबुध्यताम् ॥ ३७५ ॥ इति श्रीमदमितगत्याचार्यवर्यप्रणीते पंचसंग्रहाख्यग्रंथे शतकं समाप्तम् । नत्वाहमहतो भक्तया घातिकल्मषघातिनः । स्वशक्तया सप्ततिं वक्ष्ये बंधभेदावबुद्धये ॥ ३७६ ॥ बंधोदयसत्त्वानां सिद्धपदैदृष्टिवादपाथोधेः । स्थानानि प्रकृतीनामुद्धृत्य समासतो वक्ष्ये ॥ ३७७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy