________________
(१४८)
चतुष्कस्य द्वितीयस्य कषायाणामसंयतः विदधाति तृतीयस्य प्रकृष्टं देशसंयतः ॥ ३५७ ॥ सुरद्वितयमादेयं सुभगं नृसुरायुषी। आये संहतिसंस्थाने सुस्वरः सन्नभोगतिः ॥ ३५८ ॥ असातं विक्रियाद्वंद्वमित्येताः यास्त्रयोदश । तासां सदृष्टिदुदृष्टी बंधोत्कृष्टत्वकारिणौ ॥ ३५९ ॥ आहारकद्वयस्योक्तः प्रदशोत्कर्षणक्षमः । अप्रमत्तः, परासान्तु जीवो मिथ्यात्वदृषितः ।। ३६० ॥ उत्कृष्टयोगवान् संज्ञी पूर्णोंगी स्तोकबंधकः । प्रकृष्टं कुरुते बंधं जघन्यं विपरीतकः ॥ ३६१ ॥ चतस्रः श्वभ्रदेवायुःश्वभ्रद्वितयलक्षणाः । असंज्ञी कुरुते स्वल्पा मध्ययोगव्यवस्थितः ॥ ३६२ ॥ आहारकद्वयं साधुः प्रमादरहिताशयः । पंच निःसंयमः तीर्थकृद्देवस्य चतुष्टयं ॥ ३६३ ।। शेषाः सूक्ष्मनिगोतोऽगी स्वल्पत्वं नयते पुनः । मध्ययोगस्थितः सर्वा नवाधिकशतप्रमाः ॥ ३६४ ॥ प्रदेशप्रकृती बन्धौ भोगतः स्तः कषायतः । जन्तोः स्थित्यनुभागो स्तः तद्वयपाये व्यपायतः ॥ ३६५ ।। स्वभावः प्रकृति या स्वभावादच्युतिः स्थितिः । अनुभागो रसस्तासां प्रदेशोऽशावधारणम् ॥ ३६६ ॥ प्रकृतिस्तिक्तता निंबे स्थितिरच्यवनं पुनः । रसस्तस्यानुभागः स्यादित्येवं कर्मणामपि ॥ ३६७ ॥ कालं क्षेत्रं भवं द्रव्यमुदयः प्राप्य कर्मणाम् । जायमानो मतो द्वधा विपाकेतरभेदतः ॥ ३६८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org