________________
(१४७) आवल्यसंख्यभागेन खंडित कर्मसंचये । आधिक्यमेकखंडेन कर्तव्यं सर्वकर्मसु ॥ ३४५ ॥ अनुत्कृष्टो मतः षष्णां चतुर्भेदस्त्रयः परे । बंधाः साद्यध्रुवाः सर्वे मोहनीयायुषो द्विधा ॥ ३४६ ॥ दर्शनावरणे षटुं स्त्यानगृद्धित्रिकं बिना। दश ज्ञानान्तरायस्थाः कषायाः द्वादशान्तिमाः ॥ ३४७ ॥ जुगुप्साभयामित्यासां प्रकृतीनां चतुर्विधः । अनुत्कृष्टस्त्रयः शेषाः बन्धाः साद्यध्रुवाः द्विधा । ३४८॥ उत्कृष्टाद्याः द्विधाबंधाश्चत्वारः सादयोऽध्रुवाः । प्रकृतीनाम् प्रदेशाख्याः शेषाणां नवतेः पुनः ॥ ३४९ ॥ जघन्योनाधरो यस्मादजघन्योऽस्ति साधरः। उत्कृष्टो नोत्तरो यस्मादनुत्कृष्टोस्ति सोत्तराः ॥ ३५० ॥ उत्कृष्टो जायते बंधः षट्सु मिश्रं विनायुषः। प्रदेशाख्यो गुणस्थाननवके मोहकर्मणः ॥ ३५१ ॥ अनायुर्मोहनीयानाम् षण्णाम्भवति कर्मणाम् । अपर्याप्तस्य सूक्ष्मस्य निगोतस्य शरीरिणः ॥ ३५२ ॥ क्षुद्रभवग्रहस्योक्तं त्रिभागे परमायुषः । बंधनं कर्मणाम्प्राज्ञैरन्येषाम्प्रथमे क्षणे ।। ३५३ ॥ दृग्ज्ञानरोधविघ्नानां चतस्रः पंचपंच च । सातमुच्चयशः सप्त दशानां विदधाति वै ॥ ३५४ ॥ प्रदेशबंधमुत्कृष्टं सूक्ष्मलोभगुणस्थितः । संज्वालनरवेदानां पंचानामनिवृत्तिकः ॥ ३५५ ॥ तीर्थकृत्प्रचलानिद्राषट्रं हास्यादिगोचरं । नवानां कुरुते बंधमुत्कृष्टं शुभदर्शनः ॥ ३५६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org