________________
(१४६) स्वामित्वभागभागाभ्यामष्टोत्कृष्टादयः सह । दश प्रदेशबन्धस्य प्रकाराः कथिताः जिनः ।। ३३४॥ पुद्गलाः ये प्रगृह्यन्ते जीवन परिणामतः । रसादित्वमिवाहाराः कर्मत्वं यांति तेऽखिलाः ॥ ३३५ ॥ एकक्षेत्रावगादास्ते योग्याः सर्वप्रदेशगाः । गृह्यन्ते हेतुतो जीवैः सादयोऽनादयः सदा ॥ ३३६ ॥ गंधवर्णरसैः सर्वैः स्पर्शश्चतुर्भिरन्वितैः । विमुक्तानंतभागोस्ति कर्मानंतप्रदेशकं ॥ ३३७॥ एकैकत्रक्षणे येऽत्र बंधमायान्ति पुद्गलाः । अष्टधा बनतः कर्म तेषाम्भागप्रकल्पना ॥ ३३८ ॥ शीतोष्णस्निग्धरूक्षत्वकलिताः परमाणवः । योग्यत्वं प्रतिपद्यन्ते कर्मबंधस्य नापरे ॥ ३३९॥ एकेन परिणामेन गृहीताः परमाणवः । अष्टकर्मत्वमायांति शुद्धिसंल्केशद्धितः ॥ ३४० ॥ वृद्धिर्यथायथाक्षाणां विवर्द्धते तथा तथा । जंतोर्विशुद्धिसंक्लेशौ हीयेते परथा पुनः ॥ ३४१॥ स्वल्पस्तत्रायुषस्तुल्यो गोत्रनाम्नोस्ततोऽधिकः । विघ्नहरज्ञानरोधेषु समोभागस्ततोऽधिकः ॥ ३४२ ॥ समस्तो परमो भागो मोहनीये निवेदितः । वेदनीयेऽधिकस्तस्मादितीत्थं भागकल्पना ॥३४३ ॥ सुखदुःखे यतोऽनल्पे दत्तोभागस्ततोऽधिकः । वेदनीये परेषान्तु भूर्यवस्थाव्यपेक्षया ॥ ३४४ ॥
१ सिद्धानंतिमभागः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.