SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ (१४५) आहारकद्वयस्योक्तः संयमस्तीर्थकारिणः । सम्यक्त्वं कारणं पूर्व बंधने बंधवेदिभिः॥ ३२५ ॥ मिथ्यात्वं षोडशानामिह प्रधानं कारणमन्येषामप्रधानम् इत्यादिज्ञेयं ॥ शरीरपंचकं वर्णपंचकं रसपंचकं । षट्टे संस्थानसंहत्योरष्टकं स्पर्शगोचरं ॥ ३२६ ॥ अंगोपांगत्रयं गंधद्वयं प्रत्येकयुग्मकं । निर्माणागुरुलध्याहे स्थिरद्वंद्वं शुभद्वयम् ॥ ३२७ ॥ परघातोपघाताद्दे देहबंधनपंचकं । आतपोद्योतसंघातपंचकानीति भाषिताः ॥ ३२८ ॥ द्वाभ्यां पुद्गलपाकिन्यः षष्ठि प्रकृतयो युताः । एतदीयेन पाकेन शरीराद्युपलब्धितः ।। ३२९ ।। ज्ञानग्रोधविघ्नस्थाः वेद्यमोहनगोत्रजाः । गतयो जातयस्तीर्थकृदुच्दासो नभोगती ॥ ३३० ॥ ससुस्वरपर्याप्तस्थूलादेययशःशुभाः । सेतरा जीवयाकाः स्युरष्टाग्रा सप्ततिः पुनः ॥ ३३१ ॥ ज्ञानरोधादयः सर्वाः यतो जीवं विकुर्वतो।। जीवपाकास्ततोज्ञेयास्तत्र तत्पाकदृष्टितः ॥ ३३२ ॥ ___ अत्रात्मनि निबद्धाः सप्तविंशति नामप्रकृतयः तासां तत्रविपाकोपलब्धेः। आनुपूर्व्यश्चतस्रोऽपि क्षेत्रपाका निवेदिताः । जिनैरायूंषि चत्वारि भवपाकानि सर्वदा ॥ ३३३॥ _ इत्युनुभागबंधः समाप्तः॥ १० पं. सं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy