SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ( १४४ ) संज्वाला ः ज्ञानरुध्याद्याश्चतस्रो विघ्नपंचकं । तिस्रो रुधि पुंवेदः संति सप्तदशेति याः ॥ ३१६ ॥ चतुर्विधेन भावेन सदा परिणमंति ताः । त्रिविधेन पुनः शेषाः सप्तोत्तरशतप्रमाः ।। ३१७ ॥ लतादावस्थिपाषाणतुल्यास्ता भावतो मताः । अन्याः दार्वस्थिपाषाणतुल्याः सप्तोत्तरंशतम् ।। ३१८ ॥ प्रशस्तानां समाःभावाः गुडखंड सितामृतैः । अन्यासां निंबकंजीर विषहालाहलैर्मताः ॥ ३१९ ॥ योगेन बध्यते सातं मिथ्यात्वेनात्रषोडश । असंयमेन पंचाग्रा त्रिंशदन्याः कषायतः ॥ ३२० ॥ आहारकद्वंद्वे सम्यक्त्वं तीर्थकारिणि । प्रधानप्रत्ययास्तासामितिबन्धो न तैर्विना ॥ ३२१ ॥ इति प्रधानप्रत्ययनिर्देशः । अपरेप्येवमाहुः - मिथ्यात्वस्योदये यांति षोडश प्रथमेगुणे । संयोजनादये बंधं सासने पंचविंशतिः ।। ३२२ ॥ कषायाणां द्वितीयानामुदये निर्वते दश । स्वीक्रियन्ते तृतीयानां चतस्रो देशसंयते ॥ ३२३ ॥ सयोगे योगतः सातं शेषाः स्वे स्वे गुणे पुनः । विमुच्याहारकद्वंद्वतीर्थकृत्वे कषायतः । षष्ठिः पंचाधिका बंधं प्रकृतीनाम् प्रपद्यते ॥ ३२४ ॥ १ सोलसपणवीसणभं दसचउछक्केक्कबंधवोच्छिण्णा । दुगतीस चतुरपुव्वे पण सोलस जोगिणो एक्को | Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy