________________
(१४३) परघातं च संक्लिष्टाश्चतुर्गतिनिवासिनः । मंदाः पंचदशाप्येताः कुर्वते वामदृष्टयः ॥ ३०६ ॥ मिथ्यात्वाकुलितास्तीवविशुद्धिगतमानसाः । आरोपयन्ति मंदत्वं स्त्रीनपुंसकवेदयोः ॥ ३०७ ॥ वेद्यद्वयं स्थिरद्वंद्वं शुभद्वंद्वं शुभद्वयम् । मनुष्यद्वयमादेयद्वयं हि सुभगद्वयं ॥ ३०८ ॥ विहायोगमनद्वंद्वं विंशतिं त्रिभिरान्वताम् । प्रपन्नाः मध्यमं भावं मन्दीकुर्वन्ति दुर्दशः ॥ ३०९ ॥ संज्ञाः कथ्यन्तेभवन्ति सर्वघातिन्यः कषायाः द्वादशादिमाः । आद्याः दृग्रोधने पंच प्रान्ते ज्ञानेक्षणावृती ।। ३१०॥ मिथ्यात्वं विंशतिबंधे सम्यग्मिथ्यात्वसंयुताः । उदये ताः पुनर्दक्षरेकविंशतिरीरिताः ॥ ३११॥ बंधे २० । उदये २१ ॥ दर्शनावरणे तिस्रः चतस्रो ज्ञानरोधने । संज्वालाः नोकषायाश्च मोहने विघ्नपंचकं ॥ ३१२ ॥ जायन्ते देशघातिन्यो बंधने पंचविंशतिः । षड्विंशतिर्भवन्त्येताः सम्यक्त्वेन सहोदये ।। ३१३ ।। बंधे २५ । उदये २६ । पिंडिताः ४७ ॥ वेद्यायुर्नामगोत्राणां प्रोक्ताःप्रकृतयोऽखिलाः। अघातिन्योऽखिलाः प्राज्ञरेकोत्तरशतप्रमाः ॥ ३१४ ॥ अघातिन्यः १०१ ॥ पिंडिताः १४८ ॥ घातिकाभिरिमा युक्ता घातिका सन्त्यघातिका । घातिकास्तत्रपापाख्याः पुण्यपापाभिधाः पराः ॥ ३१५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org