________________
( १४२ )
पंच पुंवेद संज्वालाः प्रकृतीरनिवृत्तिकः । रति हास्यं जुगुप्साभीर्निद्यं वर्णचतुष्टयं ॥ २९४ ॥ नयते प्रचलितानिद्रे उपघातमपूर्वकः । मंदानुभागबंधत्वमेकादशविशुद्धधीः ।। २९५ ।। आहारकद्वयं शश्वदप्रमत्तेन साधुना । शोकारती प्रमत्तेन मंदत्वं नीयते पुनः ।। २९६ ॥ मिथ्यात्वमादिकोपादि चतुष्कं स्त्यानगृद्धयः । तिस्रश्वाष्टेतिनीयन्ते मंदत्वंवामदृष्टिना ।। २९७ ॥ असंयतो द्वितीयानां कषायाणाम् चतुष्टयं । देशव्रतस्तृतीयानाम् मंदत्वं नयते पुनः ।। २९८ ॥ इत्येताः प्रकृतीरेते संयमाभिमुख स्त्रयः । मन्दानुभागबन्धत्वं नयन्ते षोडशक्रमात् ॥ २९९ ॥ आयुश्चतुष्टयं सूक्ष्मं पहूं वैक्रियिकाहयं । साधारणमपर्याप्तं त्र्यं विकलगोचरम् ॥ ३०० ॥ मिथ्यादृशोनृतिर्यञ्च मंदीकुर्वति षोडश । उद्योतौदारिकद्वंद्वे तिस्रत्रिदशनारकाः || ३०१ ॥ तिर्यद्वितयनीचानां तिसृणां कुर्वतेंऽगिनः । मंदानुभागबंधत्वं सप्तमीमवनीङ्गताः || ३०२ ॥ मंदे स्थावरैकाक्षे द्वे तिर्यग्देवमानवाः । कुर्वते मध्यमे भावे वर्तमानाः शरीरिणः ।। ३०३ ॥ एकं सौधर्म देवान्ता आतपं वामदृष्टयः । मनुष्यास्तीर्थकर्तृत्वं मंदीकुर्वन्त्यसंयताः ॥ ३०४ ॥ उच्छ्रासागुरुलध्याह्ने निर्मित्सचतुष्टयं । पंचाक्षं कार्मणं तेजश्चारुवर्णचतुष्टयम् ॥ ३०५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org