________________
(१४१) पंचसंहतयः सूक्ष्म दुःस्वरासन्नभोगती । साधारणमपर्याप्तं दुर्भगं स्थावरास्थिरे ॥ २८३ ॥ एकाक्षमुपघातं च द्वशीतिर्वामदृष्टिना । प्रकृतीनामप्रशस्तानांप्रकृष्टीक्रियतेऽगिना ॥२८४॥कलापकम् श्वभ्रतिर्यनरायूंषि श्वभ्रद्वयमपूर्णकम् । विकलत्रितयं सूक्ष्म साधारणकमित्यमूः ॥ २८५ ॥ एकादशनृतिर्यश्चः प्रकृतीरप्रशस्तकाः । मिथ्यात्ववासितस्त्रांतास्तीत्रीकुर्वतिजन्तवः ॥२८६॥युग्मम् ।। देवो वामगुत्कृष्टानेकाक्षांस्थावरातपान् । उद्योतं कुरुते श्वाभ्रः सप्तमीभूमिमाश्रितः ॥ २८७ ॥ तिर्यग्द्वयमनादेयं प्रकृतीनामिदं त्रयं । प्रकृष्टीकुरुतो देवी कुदृष्टी देवनारको ।। २८८ ॥ प्रकृतीनामष्टषष्टिं चतुर्गतिगताःपरं । उत्कृष्टीकुर्वते तीनकषायाःवामदृष्टयः ॥ २८९ ॥ तिर्यगायुर्मनुष्यायुरातपोद्योतलक्षणम् । प्रशस्तासु पुरादत्तं प्रकृतीनां चतुष्टयम् ॥ २९० ॥ तीव्रानुभागबंधासु मध्ये यद्यपि तत्वतः । संभवापेक्षयाभूयो मिथ्यादृष्टेः प्रदीयते ॥ २९१ ॥ अप्रशस्तं तथाप्येतत्केवलंव्यपनीयते । षडशीतरपनीते द्वीतेर्जायते पुनः ॥ २९२ ॥ ८६ अपनयने ८२ ॥ दशज्ञानांतरायस्था:गावृतिचतुष्टयम् । मंदत्वं नयते सूक्ष्मः समयेत्ये चतुर्दश ॥ २९३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org