________________
(१४०)
उदीयते मनुष्यायुर्नरकायुर्मुखेन नो । चारित्रमोहनं जातु दृष्टिमोहमुखेननो ॥ २७२ ॥ अनुभागः प्रकृष्टोऽस्ति प्रशस्तानाम् विशुद्धितः । संक्लेशतोऽप्रशस्तानां जघन्यः पुनरन्यथा ॥ २७३ ॥ द्वाचत्वारिंशतस्तीत्रः प्रशस्तानां विशुद्धितः । संक्लेशतोप्रशस्तानां द्वाशीतेमदृष्टिषु ।। २७४ ॥ त्रीण्याऍषि शरीराणि पंच सचतुष्टयम् । अंगोपागत्रयं निर्मिदाद्य संस्थानसंहती ॥ २७५ ॥ परघातागुरुलघ्वाह्वे सुरद्वयनरद्वये । सुभगोचस्थिरोच्छासाः सन्नभोरीतिसुस्वरे ॥ २७६ ॥ पंचेन्द्रियं शुभादेये शस्तं वर्णचतुष्टयं । तीर्थकृत्वातपोद्योताः यशःसाते शुभाःस्मृताः ॥ २७७ ॥
॥ विशेषकम् ॥ प्रशस्तास्वातपोद्योततैरश्चमनुजायुषाम् । तीव्रोमिथ्यादृशि ज्ञेयः शेषाणाम् शुद्धदर्शने ॥ २७८ ॥ मानुषौदौरिकद्वंद्वे जीवौ संहतिमादिमाम् । प्रकृष्टीकुरुतः पंच सदृष्टी सुरनारको ॥ २७९ ॥ द्वाचत्वारिंशतस्तस्या देवायुरप्रमत्तकः । तीनां द्वात्रिंशतं शेषां कुर्वते क्षपकाःपरं ॥ २८० ॥ ४+५+१+३२=मिश्रिताः ४२॥ दशज्ञानांतरायस्था दर्शनावरणे नव । नीचं षटुिंशतिं मोहे निद्यं वर्णचतुष्टयं ॥ २८१ ॥ श्वभ्रतिर्यग्द्वये पंच संस्थानान्यशोऽशुभं । नारकायुरनादेयमसातं विकलत्रिकम् ॥ २८२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org