________________
( १३९ )
कर्मणां रसविशेषोऽनुभागस्तस्यभेदानाह अष्टभिरुत्कृष्टाद्यैः सहानुभागे चतुर्दश ज्ञेयाः । शस्ताशस्तौ संज्ञा स्वामित्व प्रत्ययविपाकाः ।। २६१ ॥ घातीनामजघन्यो वेद्ये नामनिभवन्त्यनुत्कृष्टः । अजघन्यानुत्कृष्टौ गोत्रे सर्वे चतुर्द्धा ते ।। २६२ ॥ चतुर्भेदाः भवन्त्येते साद्यनादिधुवाधुवाः । परे साद्यध्रुवाः बंधाः जायन्तेपूर्वकर्मणां ॥ २६३ ॥ चत्वारोप्यायुषो द्वेधा बुधैः साद्यध्रुवाः मताः । अनुभागो भवत्येवं मूलप्रकृतिगोचरः ।। २६४ ॥ कार्मणागुरुलघ्वा शस्तं वर्णचतुष्टयं । तैजसं निर्मिदष्टानामनुत्कृष्टश्चतुर्विधः ।। २६५ ॥ शेषाः साधध्रुवास्तासामनुत्कृष्टोज्झितास्त्रयः । बंधध्वंसिभिरष्टानामनुभागाः निवेदिताः ।। २६६ ॥ दशज्ञानांतरायस्थाःदृग्रोधे नव षोडश । कोपादयो जुगुप्साभीः निंद्यवर्णचतुष्टयम् ॥ २६७ ॥ मिथ्यात्वमुपघातश्च त्रिचत्वारिंशतः स्मृताः । अजघन्यश्चतुर्भेदः परे साद्यध्रुवास्त्रयः ।। २६८ ॥ युग्मम् ॥ उत्कृष्टाद्याः समस्तानाम्प्रकृतीनामुदाहृताः । चत्वारोऽपि द्विधान्यांसां साद्यध्रुवविकल्पतः ।। २६९ ।। स्वमुखेनैवपच्यन्ते मूलप्रकृतयोऽखिलाः । उत्तरास्तुल्यजातीयाः पुनरन्यमुखेन च ।। २७० ।। आयुर्दर्शनचारित्रमोहप्रकृतयः परं । स्वमुखेनैवपच्यंते सर्वदैवोत्तरास्वपि ।। २७१ ।।
१ | ७३ प्रकृतीनाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org