SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ (१३८) असंज्ञीविक्रिया पट्टे जघन्यां कुरुते स्थिति । चतुर्णामायुषामेनां यथास्वं संयंसंज्ञिनौ ॥ २५२ ॥ दशानामासाम्पुनर्विशेषमाहपूर्णः पंचेन्द्रियोऽसंज्ञीश्वभ्ररीतिद्वये स्थितिं । तद्योग्यप्राप्तसंक्लेशो विदधाति जघन्यिकाम् ॥ २५३ ॥ सुररीतिद्वयेऽप्येष जघन्यां कुरुते स्थिति । वहमानः परां शुद्धिं योग्यां वैक्रियिकद्वये ।। २५४ ॥ सम्प्राप्तशुद्धिसंक्लेशौ पंचाक्षौ संझ्यसंज्ञिनौ । जघन्यां कुरुते पूर्णौ श्वभ्रदेवायुषोः स्थितिम् ।। २५५ ॥ कुर्वते नरतिर्यंचो योग्यसंक्लेशभागिनः । नृतिर्यमायुषोरेनामभोगावनिजाः स्थितिं ॥ २५६ ॥ एकाक्षो बादरः पूर्णः प्राप्तसर्वविशुद्धिकः। प्रकृतीनाम्पराँसान्तु जघन्यां कुरुते स्थितिम् ॥ २५७ ॥ नारकाः विबुधाः जीवाः भोगविश्वंभराभवाः । भोगभूप्रतिबद्धा ये ते षड्मासायुपिस्थितिं ॥ २५८ ॥ यथास्वं कुर्वते योग्यशुद्धिसंक्लेशभागिनः ।। त्रिभागेष्वायुषः शेषेस्थितेः सति परे पुनः ॥ २५९ ॥ युग्मम् भोगभूप्रतिभागोऽसौ यदंतरमुदाहतम् । मानुषोत्तरशैलस्य स्वयंप्रभनगस्य च ॥ २६० ॥ इति स्थितिबन्धः समाप्तः। १ संज्ञीपर्याप्तः संप्राप्तशुद्धिः नरकायुष स्थितिं जघन्यां कुरुते असंज्ञीपंचेन्द्रियः पर्याप्तः संप्राप्तसक्लेशो देवायुषो जघन्यां स्थितिं कुरुते । २ कर्मभूमिजाः । ३ अन्यासां पंचाशीतिप्रकृतीनाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy