________________
(१३७)
यावज्जघन्यस्थितिहेतवः, जघन्यस्थिती संक्लेशाः स्तोका भूत्वा तावत्क्रमेण वर्द्धन्ते यावदुत्कृष्टस्थितिहेतवः ॥ समिथ्यात्वेन बध्यन्ते प्रकृष्टाः स्थितयोऽखिलाः । मुक्त्वाऽऽहारकदेवायुस्तीर्थकर्तृत्वकर्मणाम् ॥ २४४ ॥ निव्रतस्तीर्थकर्तृत्वे प्रमत्तस्त्रिदशायुषि । करोत्याहारके बंधमप्रमत्तः परस्थितेः ॥ २४५ ॥ श्वभ्रतियङ्नरायूंषि पदं वैक्रियिकाह्वयम् । विकलत्रितयं सूक्ष्मं साधारणमपूर्णकम् ॥ २४६ ॥ नृतिर्यंचः स्थिति पंचदशानां कुर्वते पराम् । १५ । आतपस्थावरैकाक्षेष्वीशानांताः सुरास्त्रिषु । ३ ॥ २४७ ॥ तिर्यग्द्वयमसंप्राप्तमुद्योतौदारिकद्वये । नारकत्रिदशाः पण्णामुत्कृष्टां कुर्वते स्थितिम् ॥ ६ । २४८ ॥ चतुर्गतिगता जीवाः शेषाणां कर्मणां स्थितिम् । मध्यमोत्कृष्टसंक्लेशाः प्रकृष्टां कुर्वते स्फुटम् ॥ ९२ । २४९ ॥ जघन्यस्थितिस्वामित्वं कथ्यते-- आहारकद्वये पूर्वस्तीर्थकृत्त्वे च संयतः । ३ । अनिवृत्तिस्तु पुंवेदे संज्वालानां चतुष्टये ॥ ५ । २५० ॥ दशके ज्ञानविघ्नस्थे प्रथमे दृक्चतुष्टये । जघन्यां कुरुते सूक्ष्मस्तां सातोच्चयशःस्वपि ॥ १७ । २५१ ॥
१ अप्रमत्तमनिराहारके बंधं करोति । २ मनुष्यतिर्यञ्चः पंचदशानामत्कृष्टां स्थितिं कुर्वते । ३ आतपादिषु त्रिषु कर्मसु भवनवास्यादीशानांता देवा उत्कृष्टां स्थितिं कुर्वते नान्ये । ४ दशमगुणस्थानधारी जीवः सप्तदशसु जघन्यां स्थितिं कुरुते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org