SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ (१३५) वर्णाद्यगुरुलध्वादिचतुष्के कर्मतेजसी । नव सादियुग्मानि नीचमौदारिकद्वयम् ॥ २३१ ॥ निर्माणमयशःकीर्तिर्जघन्याऽऽसां स्थितिम॑ता । द्वौ पल्यासंख्यभागोनौ सप्तभागौ पयोनिधेः ॥ २३२ ॥ कर्म ५८ स्थितिः २ पयोनिधिसहस्रस्य सप्तभागौ स्थितिः स्मृता । द्वौ वैक्रियिकषट्स्य पल्यासंख्यांशवर्जितौ ॥ २३३ ॥ २००० अपूर्वक्षपके तीर्थकरत्वाहारयुग्मयोः । जघन्यस्थितिबंधोंऽतःकोटीकोटी सरस्वताम् ।। २३४ ॥ सर्वत्रान्तर्मुहूर्त्तवर्तिनी जघन्याबाधा ॥ उत्कृष्टानुत्कृष्टजघन्याजघन्यसाधनादिध्रुवाध्रुवस्वामित्वलक्षणाः नवबंधाः तंत्रस्थितिबंधश्चतुर्भेदः सप्तानामजघन्यकः । साद्यध्रुवास्त्रयोऽन्ये स्युश्चत्वारोऽप्यायुषो द्विधा ॥ २३५॥ इति मूलप्रकृतिषु बंधमुक्त्वोत्तरास्वाहदृक्चतुष्टयसंज्वालज्ञानरोधान्तरायकाः । अष्टादश चतुर्दासां प्रकृतीनामजघन्यकः ॥ २३६ ॥ १ ससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशःकीर्तिसेतराणि । २ सागरस्यैकस्य सप्त भागाः क्रियते, तादृशौ पल्यासंख्यभागहीनौ । ३ सागरस्यैकस्य सप्त भागास्तादृशा द्विसहस्रभागास्तर्हि कियंतो लभ्यते २००० एषु ७ इत्येषां भागे दत्ते लब्धं २८५९ वैक्रियिकषटुस्य । ४ नवसु । ५यधिकशतप्रकृतीनां उत्कृष्टादयश्चत्वारः कालाः साद्यध्रुवाः स्थितिबंधा भवंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy