SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ (१३३) कोटीकोट्योबुराशीनामेतासां विशतिः स्थितिः । त्रिचत्वारिंशतोऽवाचि प्रकृतीनां परा बुधैः ॥ २१७॥ कर्म ४३ । आसां स्थितिः २० को.। नरवेदोऽरतिहास्यं सुस्वरं सन्नभोगतिः। सुरद्वन्द्वं स्थिरादेये शुभौचः सुभगं यशः ॥ २१८ ॥ संस्थानसंहती चाये कोटीकोट्यो दश स्थितिः । समुद्राणां परैतासां प्रकृतीनां निवेदिताः ॥ २१९ ॥ कर्म १५ । आसां स्थितिः १० को.। द्वित्र्यक्षचतुरक्षेषु सूक्ष्मापर्याप्तयोः स्थितिः ।। साधारणे जिनैः कोटीकोट्योऽष्टादश भाषिताः ।। २२० ॥ कर्म ६ । स्थितिरासां १८ को.। स्थितिः संस्थानसंहत्योः कोटीकोट्यो द्वितीययोः । अब्धीनां द्वादशप्राज्ञैश्चतुर्दश तृतीययोः ॥ २२१ ॥ कर्म २। १२ को. । कर्म २ । १४ को. । तुर्ययोः षोडशाब्धीनां तयोः पंचमयोरिमाः। कोटीकोट्यः पटीयोभिरष्टादश निवेदिताः ॥ २२२ ॥ कर्म २ । १६ को. । कर्म २ । १८ को.। जघन्याऽऽबाधा कथ्यतेसुदृश्याहारकद्वन्द्वतीर्थकृत्कर्मसु त्रिषु । अन्तर्मुहूर्त्तमाबाधाऽन्तःकोटीकोट्यथ स्थितिः ॥ २२३॥ कम ३। १ उच्चगोत्रं । २ सम्यग्दृष्टौ, आहारकद्वयतीर्थकरेषु अन्तःकोटीकोटीस्थितिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy