________________
( १३१)
सम्यग्दृष्टिरसंक्लिष्टो जघन्यां कुरुते स्थितिम् । सप्तानां जीवितव्यस्य मिथ्यादृष्टिः कुमानसः ॥ २०३॥ तत्रोत्कृष्टाऽऽबाधाआद्यानां सांतरायाणां त्रयाणां कर्मणां त्रयः । सहस्राः सप्त मोहस्य द्वौ ज्ञेयौ नामगोत्रयोः ॥२०४॥ ३०००।३०००।३०००।३०००१७०००।२०००।२०००। त्रयस्त्रिंशज्जिनैर्लक्षाः सत्रिभागा निवेदिताः। आवाधा जीवितव्यस्य पूर्वकोटीस्थितेः स्फुटम् ॥ २०५॥ पूर्वाणां त्रयस्त्रिंशल्लक्षा इति शेषः । ३३, कर्मणामिह सप्तानां सा त्रैराशिकतः क्रमात् । आनेतव्याऽऽयुषो भागं हृत्वा दक्षैस्त्रिभिः पुनः ॥ २०६॥ यावत्कालमुदीयन्ते न कर्मपरमाणवः । उदीरणां विनाऽऽबाधा तावत्कालेऽभिधीयते ॥ २०७॥ आबाधा नास्ति सप्तानां स्थितिः कर्मनिषेचनम् । कर्मणामायुषोऽवाचि स्थितिरेव निजा पुनः ॥ २०८ ।। __ पंचसंग्रहाभिप्रायेणेदं; सिद्धान्ताभिप्रायेण पुनरायुषोऽप्याबाधो नास्ति; स्थितिः कनिषेचनम् ।
आबाधो स्थितावस्यां समयं समयं प्रति । कर्माणुस्कन्धनिक्षेपो निषेकः सर्वकर्मणाम् ॥ २०९॥
१ अपरसिद्धांताभिप्रायेण सप्तकर्मणामाबाधो नास्ति, तर्हि किमस्ति ? कर्मनिषेचनं । कर्मनिषेचनं किं गालनं शोषणं वाऽपोषणं, आयुष्कर्मणोऽप्यात्मीया स्थितिः कथिता । पंचसंग्रहाभिप्रायेण सप्तानां कर्मणामाबाधाऽस्ति, आयुष्कर्मणोऽपि ज्ञातव्यं । २ सर्वकर्मणामाबाधोर्द्धस्थितावस्यां कर्मणामणुस्कंधयोनिक्षेपः निषेकः प्रोच्यते समयं समयं प्रति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org