SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ (१३०) गोत्रयशोदर्शनावृतिचतुष्कज्ञानावृतिपंचकान्तरायपंचकानां षोडशकानां सूक्ष्मसांपराये १६ । शान्तक्षीणकषायौ व्यतीत्यैकस्य सातस्य सयोगे बंधविच्छेदो द्रष्टव्यः। इति स्वामित्वं समाप्तम् ॥ गत्यादाविति योग्यानां प्रकृतीनां यथागमम् । स्वामित्वमवबोद्धव्यं सिद्धानामोधरूपतः ॥ १९६ ॥ इति प्रकृतिबंधः समाप्तः । त्रयाणां सांतरायाणां प्रकर्षणाद्यकर्मणाम् ।। कोटीकोट्यः स्थितिस्त्रिंशत्सागराणामुदाहृताः ॥ १९७ ॥ सप्ततिर्मोहनीयस्य विंशतिनामगोत्रयोः । आयुषोऽस्ति भयस्त्रिंशत्समुद्राणां स्थितिः परा ॥ १९८ ॥ सप्तस्वब्दशतं वार्चिकोटीकोटीस्थितेर्बुधैः । आबाधायुषि विज्ञेया पूर्वकोटित्रिभागता ॥ १९९ ॥ ग्रकृतीनां पराऽऽबाधा सर्वासामनुरूपतः । सान्तर्मुहूर्तमुद्दिष्टा जघन्याखिलकर्मणाम् ॥ २००॥ संज्ञी पंचेन्द्रियः पूर्णो घोरमिथ्यात्ववासितः । कर्मणामिह सप्तानामुत्कृष्टां कुरुते स्थितिम् ॥ २०१॥ सम्यग्दृष्टिरसदृष्टिः पर्याप्तौ कुरुतः स्थितिम् । प्रकृष्टमायुषो जीवौ शुद्धिसंक्लेशभाजिनौ ॥ २०२ ॥ १ सप्तसु कर्मसु एकस्याः कोटीकोटीस्थितेः वर्धशतं वर्षशतमाबाधा विज्ञेया, आबाधाकिमुच्यते-उदीरणां विना कर्मपरमाणवो यावत्कालपर्यन्तं नोदीयते तावत्कालमाबाधास्थितिविज्ञेया । आयुषि पूर्वकोटेस्त्रिभागता, पूर्वा एते ३३३३३३३४। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy