SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ( ५ ) न पूर्व करणाः प्राप्ता ये ते भिन्नक्षणस्थितैः ! गुणस्थानमिदं यातैरपूर्वकरणास्ततः ॥ ३६ ॥ क्षपयन्ति न ते कर्म शमयन्ति न किंचन । केवलं मोहनीयस्य शमनक्षपणोद्यताः || ३७ ॥ ये संस्थानादिना भिन्नाः समानाः परिणामतः । समानसमयावस्थास्ते भवत्यनिवृत्तयः || ३८ ॥ येनानिवृत्तयस्तुल्या भावास्तुल्यक्षणश्रिताम् । तेनानिवृत्तयो वाच्या वाच्यवाचकवेदिभिः ॥ ३९ ॥ क्षपयन्ति महामोहविद्विषं शमयन्ति ते । विनिर्मलतरैर्भावैः स्थूलकोपादिवृत्तयः ॥ ४० ॥ पूर्वापूर्वाणि विद्यन्ते स्पर्धकानि विशेषतः । संज्वालस्यानुभागस्य यानि तेभ्यो व्यपेत्य यः ॥ ४१ ॥ अनन्तगुणहीनानुभागो लोभे व्यवस्थितः । afrat यथार्थाख्यः सूक्ष्मलोभः स संमतः ।। ४२ ।। लोभसंज्वलनः सूक्ष्मः शमं यत्र प्रपद्यते । क्षयं वा संयतः सूक्ष्मः संपरायः स कथ्यते ॥ ४३ ॥ कोभोऽन्तर्गत रागो यथा वस्त्रेऽवतिष्ठते । सूक्ष्मलोभगुणे लोभः शोध्यमानस्तथा तेनुः ॥ ४४ ॥ १ स्पर्धकानां संदृष्टिरियं— क Jain Education International ५९ ५८ ५८ ५७ ५७ ५७ ५६ ५६ ५६ For Private & Personal Use Only ( शेषमग्रे पृष्ठे . ) www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy