________________
(४)
सम्यग्दृष्टिव्रतीज्ञेयः सामायिकविधायकः । प्रोषधी प्रासुकाहारी निरस्तदिनमैथुनः ॥ २५ ॥ ब्रह्मचारी निरारंभः परिग्रहपराङ्मुखः । निरस्तानुमतिस्त्रेधा विमुक्तोदेशिकाशनः ॥ २६ ॥ इत्थमेकादश प्रोक्ता भेदास्तस्य मुनीश्वरैः । त्रायते यदि यत्नेन त्रसानां देशकं सदा ।। २७ ।। न यस्य प्रतिपद्यन्ते कषाया द्वादशोदयं । व्यक्ताव्यक्तप्रमादोऽसौ प्रमत्तः संयतः स्मृतः ॥ २८ ॥ संज्वलनोकषायाणामुदये सत्यनुद्यमः । धर्मेशुद्धयष्टके वृत्ते प्रमादो गदितो यतेः ॥ २९ ॥ क्षान्तिः शौचंसंयमोऽकिंचनत्वं सत्यं त्यागो ब्रह्मचर्यतपश्च । कार्यों भव्यैरार्जवं मार्दवं च प्रा.धर्मो यष्टंधेतिप्रणीतः ॥३०॥ मनोवाक्कायमाशय्योत्सर्गविनीतिषु । कुर्वतः सर्वदा शुद्धिं शुद्धयष्टकमुदीरितं ॥ ३१ ॥ पंचपंचत्रिसंख्यानाः समितिव्रतगुप्तयः । वृत्तं निवेद्यते साधोस्त्रयोदशविकल्पकम् ।। ३२ ॥ कषायप्रणयस्वापविकथाक्षाणि योगिनः । प्रमादाश्चतुरेकैकचतुः पंच यथाक्रमम् ।। ३३ ।। शमक्षयपराचीनः कर्मणामुद्यसंयमः । निष्प्रमादोऽप्रमत्तोऽस्ति धर्म्य ध्यानमधिष्ठितः ॥ ३४ ॥ अपूर्वः करणो येषां भिन्न क्षणमुपेयुषां । अभिन्न सदृशोऽन्योवा तेऽपूर्वकरणाः स्मृताः ॥३५॥
१ पर्याप्तापर्याप्तभेदयुक्तद्दीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिसंज्ञिपंचेन्द्रियभेदरूपम् । २ द्वौ+अष्ट दश ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org