________________
(३) बन्धमौदयिको मोक्षं क्षायिकाः शामिकाच ते । उभयं कुर्वते मिश्रा नोभयं पारिणामिकाः ॥ १४ ॥ मिथ्यादृष्टिर्जिनैराद्यो द्वितीयः अस्तंदर्शनः । तृतीयोऽकथि मिश्रोऽन्यः सम्यग्दृष्टिरसंयतः ॥ १५ ॥ संयतासंयतस्तस्मात्पंचमः शुद्धदृष्टिकः। प्रमत्तसंयतः षष्ठः सप्तमोऽतोऽप्रमत्तकः ॥१६॥ अपूर्वकरणो वैधानिवृत्तिकरणो द्विधा । द्वेधा सूक्ष्मकषायोऽतः शमकक्षपकत्वतः ॥ १७ ॥ शान्तक्षीणकषायौ स्तो योग्ययोगौ ततो जिनौ । चतुर्दशगुणातीता जीवाः सिद्धास्ततः परे ॥ १८ ॥ तत्वानि जिनदृष्टानि यस्तथ्यानि न रोचते । मिथ्यात्वस्योदये जीवो मिथ्यादृष्टिरसौ मतः ॥ १९ ॥ संयोजनोदये भ्रष्टो जीवः प्रथमदृष्टितः ।। अन्तराँऽनात्तमिथ्यात्वो वर्ण्यते श्रस्तदर्शनः ।। २० ।। जघन्यः समयः कालः प्रकृष्टोऽस्य षडावलिः । कथ्यतेऽन्तर्मुहूर्तस्य शेषभूतो मनीषिभिः ॥ २१ ॥ सम्यग्मिथ्यारुचिर्मिश्रः सम्यमिथ्यात्वपाकतः । सुदुष्करः पृथग्भावो दधिमिश्रगुडोपमः ॥ २२ ॥ पाकाचारित्रमोहस्य व्यस्तप्राण्यक्षसंयमः ।। त्रिष्वेकतमसम्यक्त्वः सम्यग्दृष्टिरसंयतः ॥ २३ ॥ यस्त्राता त्रसकायानां हिंसिता स्थावराङ्गिनां। अपकाष्टकषायोऽसौ संयतासंयतो मतः ॥ २४ ॥
१ सासादनः । २ अनन्तानुबन्धिचतुष्कोदये । ३ उपशमसम्यक्त्वात् । ४ अन्तरालवी । ५ उपशमसम्यक्त्वकालस्य । ६ प्राणीन्द्रियसंयमरहितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org